This page has been fully proofread once and needs a second look.

<page>
<ignore>४१०</ignore>
<ignore>शाक्त- उपनिषदः</ignore>
<p>तस्या उपस्थाना गायत्र्यैकपदी द्विपदी त्रिपदी चतुष्पद्यपदा सा न हि पद्यते ।
यस्ते तुरीयाय पदाय दर्शिताय परोरजसे सावदोमिति समधीयीत वा
न हैवास्मै सकामः समृध्यते । यस्मा एवमुपतिष्ठते ह मदः प्रापमिति वा
एतद्ध वै तज्जनको वैदेहो विरिलमाश्रितराश्विमुवाच । यत्तु होतर्गायत्रीं
कथं हलीभूतो वहसीति । मुखं ह्यस्याः ससंभ्रमं विदांचकारेति होवाच ।
तस्या अग्निरेव मुखं यदिह वापि वह्निमानग्नावभ्यादधाति सर्वमेतत्सन्द-
हत्येवंविद्यद्यपवह्नीव पापं करोति सर्वमवैतत्सम्यग्विशुद्धो यतोऽजरोऽमृतः
स भवतीति ॥</p>
<trailer text="END">इति गायत्र्युपनिषत् समाप्ता</trailer>
<traitler text="START">गुह्यकाल्युपनिषत्</traitler>
<verse
>
<verse n="1"
>अथर्ववेदमध्ये तु शाखा मुख्यतमा हि षट् ।
स्वयंभुवा याः कथिताः पुत्रायाथर्वण पुरा ॥ १ ॥</verse>
<verse>तासु गुद्योपनिषदस्तिष्ठन्ति वरवर्णिनि ।
नामानि शृणु शाखानां तत्राद्या वारतन्तवी ॥ २ ॥</verse>
<verse>मौञ्जायनी द्वितीया तु तृतीया तार्णबैन्दवी ।
चतुर्थी शौनकी प्रोक्ता पञ्चमी पैप्पलादिका ॥ ३ ॥</verse>
<verse>षष्ठी सौमन्तवी ज्ञेया सारात् सारतमा इमाः ।
गुह्योपनिषदो गूढाः सन्ति शाखासु षट्स्वपि ॥ ४ ॥</verse>
<verse>ता एकीकृत्य सर्वास्तु मयाऽस्यां विनिवेशिताः ।
संहितायां साधकानामुद्धाराय वरानने ॥ ५ ॥</verse>
</page>