This page has not been fully proofread.

४१०
 
शाक्त- उपनिषदः
 
तम्या उपस्थाना गायत्र्यैकपदी द्विपदी त्रिपदी चतुष्पद्यपदा सा न हि पद्यते ।
यस्ते तुरीयाय पदाय दर्शिताय परोरजमे सावदोमिति समधीयीत वा
न हैवास्मै सकामः समृद्धते । यस्मा एवमुपतिष्ठते ह मदः प्रापमिति वा
एतद्ध वै तज्जनको वैदेहो बुरिलमाश्रितराश्विमुवाच । यत्तु होतर्गायत्री
कथं हलीभृतो वहसीति । मुखं द्यस्याः ससंभ्रमं विद्वांचकारेति होवाच ।
तस्या अमिंग्व मुखं यदिह वापि वह्निमानमावस्यादधाति सर्वमेतत्सन्द-
हत्येवं विद्यद्यपवह्नीव पापं करोति सर्वमवैतत्सम्यग्विशुद्ध यतोऽजरोऽमृत
स भवतीति ॥
 
इति गायन्युपनिषत् समाप्ता
 
गुह्यकाल्युपनिषत्
 
अथर्ववेदमध्ये तु शाखा मुख्यतमा हि पट् ।
स्वयंभुवा याः कथिताः पुत्रायाथर्वण पुरा ॥ १ ॥
तासु गुद्योपनिषद स्तिष्ठन्ति वरवर्णिनि ।
 
नामानि शृणु शाखानां तत्राद्या वारतन्तवी ॥ २ ॥
मौञ्जायनी द्वितीया तु तृतीया ताबैन्दवी ।
चतुर्थी शौनकी प्रोक्ता पञ्चमी पैप्पलादिका ॥ ३ ॥
षष्ठी सामन्तवी ज्ञेया सांगत सारतमा इमाः ।
गुह्योपनिषदो गृहाः सन्ति शाखासु षट्स्वपि ॥ ४ ॥
ता एकीकृत्य सर्वास्तु मयाऽस्यां विनिवेशिताः ।
संहितायां साधकानामुद्धाराय वरानने ॥ ५ ॥