2026-02-16 07:00:20 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>गायत्र्युपनिषत्</ignore>
<ignore>४०९</ignore>
<title>गायत्र्युपनिषत्</title>
<p merge-next="true">ॐ भूमिरन्तरिक्षं द्यौरित्यष्टावक्षराणि । अष्टाक्षरं ह वा एकं
गायत्र्यै पदमेतदु हास्या एतत्स यावदेतेषु लोकेषु तावद्ध जयति ।
योऽस्या एतदेवं पदं वेद ऋचो यजूंषि सामानीत्यष्टाक्षरं ह वा एकं
गायत्र्यै पदमेदु हास्या एतत्स यावतीयं त्रयी विद्या तावद्ध जयति ।
योऽस्या एतदेवं पदं वेद प्राणोऽपानो व्यान इत्यष्टावक्षराण्यष्टाक्षरं ह वा एक
गायत्र्यै पदमेतदु हास्या एतत्स यावदिदं प्राणिति तावद्ध जयति । योऽस्या
एतदेवं पदं वेदाथास्या एतदेव तुरीयं दर्शितं पदं परोरजाय एष
तपतीति यद्वै चतुर्थं तत्तुरीयं दर्शितं पदमिति ददर्श इव ह्येष परोरजा
इति सर्वमु ह्येष रज उपर्युपरि तपत्येवं ह वा एष श्रिया यशसा तपति ।
योऽस्या एतदेवं पदं वेद सैषा गायत्री एतस्मिंस्तुरीयं दर्शितं पदे परोरजसि
प्रतिष्ठिता तद्वै सत्सत्ये प्रतिष्ठितं चक्षुर्हि वै सत्यं तस्माद्यदिदानीं द्वौ
विवदमानावेयातां अहमद्राक्षमहमश्रौषमिति । य एव ब्रूयादहमद्राक्षमिति
तस्या एव श्रद्धव्या य एतद्वै तत् सत्यं बले प्रतिष्ठितं तस्मादाहुर्बलं
सत्यादौ ज्ञेयं एवं वैषा गायत्र्यध्यात्मं प्रतिष्ठिता सा हैषा गायंस्ते प्राणा
वै गायास्तान् प्राणांस्तते उद्यद्गायंस्तते तस्माद्गायत्री नाम स यामेवामूं
मत्वा हैषैवमास यस्मा इत्याह तस्य प्रमाणं त्रायते तां हैके सावित्री-
मनुष्टुभमन्वाहुरनुष्टुभैतद्वाचमनुब्रूम इति न तथा कुर्याद्गायत्रीमेवानु-
ब्रूयाद्यदि ह वापि बह्विव प्रतिगृह्णाति । इहैव तद्गायत्र्या एकंचन
पदं प्रति य इमांस्त्रीन् लोकान पूर्णान् प्रतिगृह्णीयात् सोऽस्या एतत्प्रथमं
पदमाप्नुयात् अथ यावतीयं त्रयी विद्या यस्तावत् प्रतिगृह्णीयात् सोऽस्या
एतद्द्वितीयमाप्नुयात् । अथ यावदिदं प्राणिति यस्तावत् प्रतिगृह्णीयात् ।</p>
<ignore>U 52</ignore>
</page>