This page has not been fully proofread.

गायत्र्युपनिषत्
 
गायत्र्युपनिषत्
 
1
 
४०९
 
ॐ भूमिरन्तरिक्षं द्यौरित्यष्टावक्षराणि । अष्टाक्षरं ह वा एकं
गायत्र्यै पदमेतदु हास्या एतत्स यावदेतेषु लोकेषु तावद्ध जयति ।
योsस्या एतदेवं पदं वेद ऋचो यजूंषि सामानीत्यष्टाक्षरं ह वा एकं
गायत्र्यै पदमेदु हास्या एतत्स यावतीयं त्रयी विद्या तावद्ध जयति ।
योऽस्या एतदेवं पदं वेद प्राणोऽपानो व्यान इत्यष्टावक्षराण्यष्टाक्षरं ह वा एक
गायत्र्यै पदमेदु हास्या एतत्स यावदिदं प्राणिति तावद्ध जयति । योऽस्या
एतदेवं पदं वेदाथास्या एतदेव तुरीयं दर्शितं पदं परोरजाय एष
तपतीति यद्वै चतुर्थं तत्तुरीयं दर्शितं पदमिति ददर्श इव ह्येष परोरजा
इति सर्वमु ह्येष रज उपर्युपरि तपत्येवं ह वा एष श्रिया यशसा तपति ।
योऽस्या एतदेवं पदं वेद सैषा गायत्री एतस्मिंस्तुरीयं दर्शितं पढ़े परोरजसि
प्रतिष्ठिता तद्वै सत्सत्ये प्रतिष्ठितं चक्षुर्हि वै सत्यं तस्माद्यदिदानीं
विवदमानावेयातां अहमद्राक्षमहमश्रीषमिति । य एव ब्रूयादहमद्राक्षमिति
तस्या एव श्रद्धव्या य एतद्वै तत् सत्यं बले प्रतिष्ठितं तस्मादाहुर्बल
सत्यादौ ज्ञेयं एवं वैषा गायत्र्यध्यात्मं प्रतिष्ठिता सा हैषा गायंस्त प्राणा
वै गायास्तान् प्राणांस्तने उद्यद्वायंस्तनं तम्माद्गायत्री नाम स यामेवामूं
मत्वा षैवमास यम्मा इत्याह तस्य प्रमाणं त्रायते तां हे सावित्री-
मनुष्टुभमन्वाहुरनुष्टुभैतद्वाचमनुब्रूम इति न तथा कुर्याद्गायत्री मेवानु-
ब्रूयाद्यदि ह वापि बह्निव प्रतिगृह्णाति । इहैव तद्गायत्र्या एकंचन
पदं प्रति य इमांस्त्रीन् लोकान पूर्णान् प्रतिगृह्णीयात सोऽस्या एतत्प्रथमं
पदमाप्नुयात् अथ यावतीयं त्रयी विद्या यस्तावत् प्रतिगृह्णीयात सोऽस्या
एतद्वितीयमाप्नुयात् । अथ यावदिदं प्राणिति यस्तावत् प्रतिगृह्णीयात् ।
 
U 52