2026-02-16 07:08:49 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>૦૮</ignore>
<pignore>शाक्त-उपनिषदः</pignore>

कुन्देन्दुशङ्खपाण्डुनेत्रनीलोत्पलचन्दनागुरुकस्तूरीगोरोचनघनसारसन्निभं प्रत्य-
क्षरमनुस्मृत्य समस्तपातकोपपातकमहापातकागम्यागमनगोहत्याब्रह्महत्याभ्रूण-
हत्यावीरहत्यापुरुषहत्याऽऽजन्मकृतहत्यास्त्रीहत्यागुरुहत्यापितृहत्याप्राणहत्याच-
राचरहत्याऽभक्ष्यभक्षणप्रतिग्रहस्वकर्मविच्छेदनस्वाम्यार्तिहीनकर्मकरणपरधनाप-
हरणशूद्रान्नभोजनशत्रुमारणचण्डालीगमनादिममस्तपापहरणार्थं संस्मरेत् ।

मूर्धा ब्रह्मा शिखान्तो विष्णुर्ललाटं रुद्रश्चक्षुपी चन्द्रादित्यौ
कर्णौ शुक्रबृहस्पती नासापुटे अश्विनी दन्तोष्ठावुभे सन्ध्ये मुखं मरुतः
स्तनौ वस्वादयो हृदयं पर्जन्य उदरमाकाशो नाभिरग्निः कटिरिन्द्राग्नी
जघनं प्राजापत्यमूरू कैलासमूलं जानुनी विश्वेदेवौ जङ्घे शिशिरः
गुल्फानि पृथिवीवनस्पत्यादीनि नवानि महती अस्थीनि नवग्रहा असृक्के-
तुर्मांसमृतुसन्धयः कालद्वयाम्फालनं संवत्सरो निमेषोऽहोरात्रमिति वाग्देवीं
गायत्रीं शरणमहं प्रपद्ये ।

य इदं गायत्रीरहस्यमधीते तेन क्रतुसहस्रमिष्टं भवति । य इदं
गायत्रीरहस्यमधीते दिवसकृतं पापं नाशयति । प्रातर्मध्याह्नयोः ष्ण्मासकृतानि
पापानि नाशयति । सायं प्रातरधीयानो जन्मकृतं पापं नाशयति । य इदं
गायत्रीरहस्यं ब्राह्मण: पठेत् तेन गायत्र्याः पष्टिसहस्राणि जप्तानि भवन्ति ।
सर्वान् वेदानधीतो भवति । सर्वेषु तीर्थेषु स्नातो भवति । अपेयपानात् पूतो
भवति । अभक्ष्यभक्षणात् पूतो भवति । वृषलीगमनात् पूता भवति । अब्रह्म-
चारी ब्रह्मचारी भवति । पङ्क्तिषु सहस्रपानात् पूतो भवति । अष्टौ
ब्राह्मणान् ग्राहयित्वा ब्रह्मलोकं स गच्छति । इत्याह भगवान् ब्रह्मा ॥

इति गायत्रीरहस्योपनिषत् समाप्ता

</page>