This page has not been fully proofread.

૦૮
 
शाक्त-उपनिषदः
 
कुन्देन्दुशङ्खपाण्डुनेत्रनीलोत्पलचन्दनागुरु कस्तूरीगोरोचनघनसारसन्निभं प्रत्य-
क्षरमनुस्मृत्य समस्तपातकोपपातकमहापातकागम्यागमनगोहत्याब्रह्महत्या भ्रूण-
हत्या वीरहत्यापुरुषहत्याऽऽजन्मकृतहत्या स्त्रीहत्यागुरुहत्यापितृहत्याप्राणहत्याच
 
राचरहत्याऽभक्ष्यभक्षणप्रतिग्रहस्वकर्मविच्छेदनस्वाम्यार्तिहीनकर्मकरणपरधनाप-
हरणशूद्रान्नभोजनशत्र मारणचण्डालीगमनादिममस्तपापहरणार्थं संस्मरेत् ।
 
मूर्धा ब्रह्मा शिखान्तो विष्णुर्ललाटं रुद्रश्चक्षुपी चन्द्रादित्यौ
कर्णौ शुक्रबृहस्पती नासापुटे अश्विनी दन्तोष्ठावुभ सन्ध्ये मुखं मरुतः
स्तनों वस्वादयो हृदयं पर्जन्य उदरमाकाशो नाभिरग्निः कटिरिन्द्रामी
जघनं प्राजापत्यमूरू कैलासमूलं जानुनी विश्वेदेवा जङ्घे शिशिर :
गुल्फानि पृथिवीवनस्पत्यादीनि नवानि महती अस्थीनि नवग्रहा असृक्के-
तुर्मासमृतुसन्धयः कालद्वयाम्फालनं संवत्यगे निमेषोऽहोरात्रमिति वाग्देवी
गायत्रीं शरणमहं प्रपद्ये ।
 
य इदं गायत्री रहस्यमधीते तेन कतुसहस्रमिष्टं भवति । य इदं
गायत्री रहस्यमधीते दिवसकृतं पापं नाशयति । प्रातर्मध्याह्नयोः पण्मामकृतानि
पापानि नाशयति । सायं प्रातरधीयानां जन्मकृतं पापं नाशयति । य इदं
गायत्रीरहस्यं ब्राह्मण: पठेत तेन गायत्र्याः पष्टिसहस्राणि जप्तानि भवन्ति ।
सर्वान् वेदानधीतो भवति । सर्वषु तीर्थेषु स्नातो भवति । अपेयपानात पूतो
भवति । अभक्ष्यभक्षणात् पूतो भवति । वृषलीगमनात पूता भवति । अब्रह्म-
चारी ब्रह्मचारी भवति । पङ्क्तिषु सहस्रपानान् पूतो भवति । अष्टो
ब्राह्मणान ग्राहयित्वा ब्रह्मलोकं स गच्छति । इत्याह भगवान ब्रह्मा ॥
 
इति गायत्री रहस्योपनिषत् समाप्ता
 
t