This page has been fully proofread once and needs a second look.

<page>
<ignore>
४०६
 
</ignore>
<ignore>
शाक्त-उपनिषदः
 
</ignore>
<p merge-next="true">
धर्म इत्येषा गायत्री । सा च किंगोत्रा कत्यक्षरा कतिपादा । कति कुक्षयः ।

कानि शीर्षाणि । सांख्यायनगोत्रा सा चतुर्विंशत्यक्षरा गायत्री त्रिपादा

चतुष्पादा । पुनस्तस्याश्चत्वारः पादाः षट् कुक्षिकाः पञ्च शीर्षाणि भवन्ति ।

के च पादाः काश्च कुक्षयः कानि शीर्षाणि । ऋग्वेदोऽस्याः प्रथमः पाढो
do
भवति । यजुर्वेदो द्वितीयः पादः । सामवेदस्तृतीयः पादः । अथर्ववेदश्चतुर्थः

पादः । पूर्वा दिक् प्रथमा कुक्षिर्भवति । दक्षिणा द्वितीया कुक्षिर्भवति ।

पश्चिमा तृतीया कुक्षिर्भवति । उत्तरा चतुर्थी कुक्षिर्भवति । ऊर्ध्वं पञ्चमी

कुक्षिर्भवति । अधः पष्ठी कुक्षिर्भवति । व्याकरणोऽस्याः प्रथमः शीर्षो भवति ।

शिक्षा द्वितीयः । कल्पस्तृतीयः । निरुक्तश्चतुर्थः । ज्योतिषामयनमिति

पञ्चमः । का दिक् को वर्णः किमायतनं कः स्वरः किं लक्षणं कान्यक्षर-

दैवतानि क ऋषयः कानि छन्दांसि काः शक्तयः कानि तत्त्वानि के

चावयवाः । पूर्वायां भवतु गायत्री । मध्यमायां भवतु सावित्री । पश्चिमायां

भवतु सरस्वती । रक्ता गायत्री । श्रुवेता सावित्री । कृष्णा सरस्वती ।

पृथिव्यन्तरिक्षं द्योयौरायतनानि । अकारोकारमकाररूपोदात्तादिस्वरात्मिका ।

पूर्वा सन्ध्या हंसवाहिनी ब्राह्मी | मध्यमा वृषभवाहिनी माहेश्वरी । पश्चिमा

गरुडवाहिनी वैष्णवी । पूर्वाह्नकालिका सन्ध्या गायत्री कुमारी रक्ता

रक्ताङ्गी रक्तवासिनी रक्तगन्धमाल्यानुलेपनी पाशाङ्कुशाक्षमालाकमण्डलुवर-

हस्त हंसारुढ ब्रह्मदैवत्या ऋग्वेदसहिता आदित्यपथगामिनी भूमण्डल-

वासिनी । मध्याह्नकालिका सन्ध्या सावित्री युवती श्वेताङ्गी श्वेतवासिनी

श्वेतगन्धमाल्यानुलेपनी त्रिशूलडमरुहस्ता वृषभारूढा रुद्रदैवत्या यजुर्वेद-

महिता आदित्यपथगामिनी भुवोलोकं व्यवस्थिता । सायं सन्ध्या सरस्वती

वृद्धा कृष्णाङ्गी कृष्णवासिनी कृष्णगन्धमाल्यानुलेपना शङ्खचक्रगदाभयहस्ता

गरुडारूढा विष्णुदैवत्या सामवेदसहिता आदित्यपथगामिनी स्वर्गलोकव्यव-
 
</p>
</page>