2026-02-10 02:57:17 by ambuda-bot
This page has not been fully proofread.
४०६
शाक्त-उपनिषदः
धर्म इत्येषा गायत्री । सा च किंगोत्रा कत्यक्षरा कतिपादा । कति कुक्षयः ।
कानि शीर्षाणि । सांख्यायनगोत्रा सा चतुर्विंशत्यक्षरा गायत्री त्रिपादा
चतुष्पादा । पुनस्तस्याश्चत्वारः पादाः षट् कुक्षिकाः पञ्च शीर्षाणि भवन्ति ।
के च पादाः काश्च कुक्षयः कानि शीर्षाणि । ऋग्वेदोऽस्याः प्रथमः पाढो
भवति । यजुर्वेदो द्वितीयः पादः । सामवेदस्तृतीयः पादः । अथर्ववेदश्चतुर्थः
पादः । पूर्वा दिक् प्रथमा कुक्षिर्भवति । दक्षिणा द्वितीया कुक्षिर्भवति ।
पश्चिमा तृतीया कुक्षिर्भवति । उत्तरा चतुर्थी कुक्षिर्भवति । ऊर्ध्वं पञ्चमी
कुक्षिर्भवति । अधः पष्ठी कुक्षिर्भवति । व्याकरणोऽस्याः प्रथमः शीर्षो भवति ।
शिक्षा द्वितीयः । कल्पस्तृतीयः । निरुक्तश्चतुर्थः । ज्योतिषामयनमिति
पञ्चमः । का दिक् को वर्णः किमायतनं कः स्वरः किं लक्षणं कान्यक्षर-
दैवतानि क ऋषयः कानि छन्दांसि काः शक्तयः कानि तत्त्वानि के
चावयवाः । पूर्वायां भवतु गायत्री । मध्यमायां भवतु सावित्री । पश्चिमायां
भवतु सरस्वती । रक्ता गायत्री । श्रुता सावित्री । कृष्णा सरस्वती ।
पृथिव्यन्तरिक्षं द्योरायतनानि । अकारोकारमकाररूपोदात्तादिस्वरात्मिका ।
पूर्वा सन्ध्या हंसवाहिनी ब्राह्मी मध्यमा वृषभवाहिनी माहेश्वरी । पश्चिमा
गरुडवाहिनी वैष्णवी । पूर्वाह्नकालिका सन्ध्या गायत्री कुमारी रक्ता
रक्ताङ्गी रक्तवासिनी रक्तगन्धमाल्यानुलेपनी पाशाङ्कुशाक्षमालाकमण्डलुवर-
हस्त हंसारुढ ब्रह्मदैवत्या ऋग्वेदसहिता आदित्यपथगामिनी भूमण्डल-
वासिनी । मध्याह्नकालिका सन्ध्या सावित्री युवती श्वेताङ्गी श्वेतवासिनी
श्वेतगन्धमाल्यानुलेपनी त्रिशूलडमरुहस्ता वृषभारूढा रुद्रदैवत्या यजुर्वेद-
महिता आदित्यपथगामिनी भुवोलोकं व्यवस्थिता । सायं सन्ध्या सरस्वती
वृद्धा कृष्णाङ्गी कृष्णवासिनी कृष्णगन्धमाल्यानुलेपना शङ्खचक्रगदाभयहस्ता
गरुडारूढा विष्णुदैवत्या सामवेदसहिता आदित्यपथगामिनी स्वर्गलोकव्यव-