2026-02-16 06:18:11 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>गायत्री रहस्योपनिषत्</ignore>
<title>गायत्रीरहस्योपनिषत्</title>
<ignore>४०५</ignore>
<p>ॐ स्वस्ति सिद्धम् । ॐ नमो ब्रह्मणे । ॐ नमस्कृत्य याज्ञवल्क्यः
ऋषिः स्वयंभुवं परिपृच्छति । हे ब्रह्मन् गायत्र्या उत्पत्तिं श्रोतुमिच्छामि ।
अथातो वसिष्ठः स्वयंभुवं परिपृच्छति । यो ब्रह्मा स ब्रह्मोवाच ।
ब्रह्मज्ञानोत्पत्तेः प्रकृतिं व्याख्यास्यामः । को नाम स्वयंभूः पुरुष इति ।
तेनाङ्गुलीमथ्यमानात् सलिलमभवत् । सलिलात् फेनमभवत् । फेनाद्बुद्बुदम-
भवत् । बुद्बुदादण्डमभवत् । अण्डाद्ब्रह्माभवत् । ब्रह्मणो वायुरभवत् ।
वायोरभिरभवत् । अग्नेरोङ्कारोऽभवत् । ओङ्काराद्व्याहृतिरभवत् । व्याहृत्याः
गायत्र्यभवत् । गायत्र्याः सावित्र्यभवत् । सावित्र्याः सरस्वत्यभवत् ।
सरस्वत्याः सर्वे वेदा अभवन् । सर्वेभ्यो वेदेभ्यः सर्वे लोका अभवन् ।
सर्वेभ्यो लोकेभ्यः सर्वे प्राणिनोऽभवन् ।</p>
<p merge-next="true">अथातो गायत्री व्याहृतयश्च प्रवर्तन्ते । का च गायत्री काश्च
व्याहृतयः । किं भूः किं भुवः किं सुवः किं महः किं जनः किं तपः किं
सत्यं किं तत् किं सवितुः किं वरेण्यं किं भर्गः किं देवस्य किं धीमहि
किं धियः किं यः किं नः किं प्रचोदयात् । ॐ भूरिति भुवो लोकः ।
भुव इत्यन्तरिक्षलोकः । स्वरिति स्वर्गलोकः । मह इति महर्लोकः ।
जन इति जनोलोकः । तप इति तपोलोकः । सत्यमिति सत्यलोकः । तदिति
तदसौ तेजोमयं तेजोऽग्निर्देवता । सवितुरिति सविता सावित्रमादित्यो वै ।
वरेण्यमित्यत्र प्रजापतिः । भर्ग इत्यापो वै भर्गः । देवस्य इतीन्द्रो
देवो द्योतत इति स इन्द्रस्तस्मात् सर्वपुरुषो नाम रुद्रः । धीमहीत्यन्त-
रात्मा । धिय इत्यन्तरात्मा परः । य इति सदाशिवपुरुषः । नो इत्यस्माकं
स्वधर्मे । प्रचोदयादिति प्रचोदितकाम इमान् लोकान् प्रत्याश्रयते यः परो</p>
<ignore>I</ignore>
<ignore>CC.0- Jangamwadi Math Collection. Digitized by eGangotri</ignore>
</page>