2026-02-15 08:34:51 by ambuda-bot
This page has not been fully proofread.
४०४
·
शाक्त-उपनिषदः
काली मेधादीक्षितोपनिषत्
अथाह वै देवानां पत्नीं भजते । तस्योपासकोऽन्यां गच्छन् ॐ
अथैनां मेधादीक्षितरूपिणीं भावयेत् । स शिवो भवेत् । स कालीरूपो
भवेत् । सोऽयं मेधास्पर्शमणिकालीं दीक्षयेत् । ततश्चिन्तामणिकालीं
दीक्षयेत् । ततः सिद्धकाल्यधिकारी भवेत् । ततो विद्याराज्ञीं जपेत् ।
ततः कामकलाकालीं परारूपिणीं जपेत् । ततश्चरणदीक्षारूपिणीं हंसकालीं
यजेत् । रक्तशुक्लमिश्रनिर्वाणरूपिणीं यजेत् । सर्वनिर्वाणदीक्षितो भवेत् ।
ततः शाम्भवीदीक्षितो भवेत् । गुह्यकाल्यधिष्ठितो भवेत् । शिवो भवेत् ।
स परारूपो भवेत् । परात् पररूपो भवेत् । परात् परातीतरूपो भवेत् ।
चित्परारूपो भवेत् । चित्परात् परारूपो भवेत् । चित्परात् परातीतरूपो
भवेत् । ब्रह्मविष्णुरुद्रेश्वरसदाशिवमहाकालचित्परायारूपो भवेत् । स ब्रह्मत्वं
गच्छति । मेधादीक्षां लभेत् । मेधादीक्षातः परा दीक्षा न विद्यत इत्याह
भगवान् शिवः । स्पर्शविद्यया देहशुद्धिर्भवेत् । ततश्चिन्तामणिविद्याधिकारी
विद्याराज्ञीं लभेत् । विद्याराज्ञ्यधिकारी तु षोढां जपेत् । तुर्याषोढाधिकारी
कामकलां जपेत् । कामकलाधिकारी चरणरूपिणीं जपेत् । हंसदीक्षितो
भवेत् । चरणाधिकारी पट्छाम्भवसंपन्नो भवेत् । गुह्यकाल्यधिष्ठितो भवेत् ।
ततो मेधां चरेत् । जीवको हि भृङ्गत्वं गच्छति । भृङ्गीभूत्वा पट्
चक्राणि निर्भिन्द्यात् । ततः परागभुग्भवेत् । परकायप्रवेशवान् वयस्स्थैर्य
चरेत् । कामरूपत्वं गच्छति । षष्टिसिद्धीश्वरो भवेदिति शिवप्रोक्तं वेद ॥
इत्याथर्वणे सौभाग्यकाण्डे कालीमेधादीक्षितोपनिषत् समाप्ता
CC.0- Jangamwadi Math Collection. Digitized by eGangotri