This page has not been fully proofread.

अथ हैनां
 

 
कालिकोपनिषत्
 
मूलाधारे स्मरेद्दिव्यं त्रिकोण तेजसां निधिम् ।
शिखा आनीय तस्याग्रथ तूर्ध्वं व्यवस्थिता ॥
नीलतोय मध्यस्था विद्युल्लेग्वेव भास्वरा ।
नीवारशुकवत्तन्वी पीता भास्वत्यनृपमा ॥
 
तस्याः शिखाया मध्ये परमात्मा व्यवस्थितः ।
 
स ब्रह्मा स शिवः सेन्द्रः सोक्षर: परम: स्वराट् ॥
 
स एव विष्णुः स प्राणः स कालोऽग्निः स चन्द्रमाः ।
इति कुण्डलिनी ध्यात्वा सर्वपापैः प्रमुच्यते ॥
 
४०३
 
महापातकेभ्यः पूतो भूत्वा सर्वमन्त्रसिद्धिं कृत्वा भैरवो भवेत । महा-
कालभैरवोऽस्य ऋषिः । अनुष्टुप् छन्द ( उष्णिक् छन्दः) कालिका देवता ।
ह्रीं बीजं हूं शक्तिः क्रीं कीलकं अनिरुद्धसरस्वती देवता । कवित्वे पाण्डित्यार्थे
( धर्मार्थकाममोक्षार्थे) जपे विनियोगः । इत्येवमृपिच्छन्दोदैवतं ज्ञात्वा मन्त्र
साफल्यमश्नुते । अथर्वविद्यां प्रथममेकं द्वयं त्रयं वा नामद्वयसंपुटितं कृत्वा
योजयेत् । गतिम्तम्याम्तीति । नान्यस्य गतिरम्तीति । ॐ सत्यम् ।
ॐ तत्सत् ।
 
अथ हैनं गुरुं परितोष्यैनं मन्त्रराजं गृह्णीयात् । मन्त्रराजं गुरुस्तमपि
शिष्याय सत्कुलीनाय विद्याभक्ताय सुवेषां स्त्रियं स्पृष्टा स्वयं निशायां
निरुपद्रवः परिपूज्य एकाकी शिवगेहे लक्षं तदर्धे वा जपित्वा दद्यात् । ॐ
ॐ ॐ सत्यं सत्यं सत्यम् । नान्यप्रकारेण सिद्धिर्भवति । अथाह वैं कालि-
कामनोस्तारामनोत्रिपुरामनोः सर्वदुर्गामनोर्वा स्वरूपसिद्धिग्वमिति शिवम् ॥
 
इत्याथर्वणे सौभाग्यकाण्डे कालिकोपनिषत समाप्ता