This page has not been fully proofread.

४०२
 
शाक्त-उपनिषदः
 
1
 
अमृतत्वं भजति । स आयुरारोग्यमैश्वर्यं भजति । सदा पञ्चमकारेण पूजयेत् ।
सदा गुरुभक्तो भवेत् । सदा देवभक्तो भवेत् । धर्मिष्ठतां पुष्टिमहतवाचं
विप्रा लभन्ते । मन्त्रजापिनां ह्यात्मा विद्याप्रपूरितो भवति । स जीवन्मुक्तो
भवति । स सर्वशास्त्रं जानाति । स सर्वपुण्यकारी भवति । स सर्वयज्ञयाजी
भवति । राजानो दासतां यान्ति । जप्त्वा स सर्वमतं मन्त्रराजं स्वयं
शिव एवाहमित्यणिमादिविभूतीनामीश्वर: कालिकां लभेत् ।
 
आवयोः पात्रभूतः सन् सुकृती त्यक्तकल्मषः ।
जीवन्मुक्तः स विज्ञेयो यस्मै लब्धा हि दक्षिणा ॥
 
दशांश होमयेत्तदनु तर्पयेत् । अथ के यज्ञान्कामानद्वैतज्ञानादीन-
निरुद्धसरस्वतीति । अथ हेष: कालिकामनुजापी यः सदा शुद्धात्मा
ज्ञानवैराग्ययुक्तः शाम्भवीदीक्षासु रक्तः शाक्तासु । यदि वा ब्रह्मचारी रात्रौ
नमः सर्वदा मधुनाशक्तो मनसा जपपूजादिनियमवान् । योषित्प्रियकरो
भगोदकेन तर्पणं तेनैव पूजनं कुर्यात् । सर्वदा कालिकारूपमात्मानं विभावयेत् ।
स सर्वदा योषिदासक्तो भवेत । स सर्वहत्यां तरति तेन मधुदानेन । अथ
पञ्चमकारण सर्वमायादिविद्यां पशुधनधान्यं सर्वेशत्वं च कवित्वं च । नान्यः
परमः पन्था विद्यते मोक्षाय ज्ञानाय धर्माधर्माय । तत्सर्वं भृतं भव्यं
यत्किञ्चिद्दृश्यमानं स्थावरजङ्गमं तत्सर्वं कालिकातन्त्र आतं प्रातं वेद । य
एवं मनुजापी स पाप्मानं तरति । स भ्रूणहत्यां तरति । सोऽगम्यागमनं
तरति । स सर्वसुखमाप्नोति । स सर्व जानाति । स सर्वसंन्यासी भवति । स
विरक्तो भवति । स सर्ववेदाध्यायी भवति । स सर्वमन्त्रजापी भवति । स
सर्वशास्त्रवेत्ता भवति । स सर्वज्ञानकारी भवति । स आवयोर्मित्रभूतो
भवति । इत्याह भगवान् शिवः । निर्विकल्पेन मनसा स वन्द्यो भवति ।