This page has not been fully proofread.

४००
 
शाक्त-उपनिषद:
 
कामराजकीलितोद्धारोपनिषत्
 
अथोवाच कामराजम् । तदुपासनात कुशलं लभेत् । श्रियं लभेत् ।
गुवीं वाणीं लभेत । सर्वयुवतीनां प्रियां भवेत । प्रथमं कामस्ततः
शक्तिस्तदनु तुरीयं द्वावेतौ परैतानि पञ्चाक्षराणि भवन्ति । ततः शुन्यं च
हो दिवाकरहरौ । तदनु गोत्रभृन्माया । एतानि पडक्षराणि भवन्ति ।
ततश्चन्द्रः प्रजापतिशकौ । ततो माया । एतानि चतुरक्षराणि भवन्ति । आद्यं
वाग्भवं द्वितीयं कामराजं तृतीयं शक्तिबीजं शुक्लं तरुणदिवाकराभं शशिकान्तं
क्रमेण स्मरत । कफारादित्वात्कीलिता । कोटिजपान सिद्धिर्न जायते । यदा
मन्मथकलादिर्भवति तदा निष्कीलिता भवेत् । सिद्धिदा भवेत् । सा
वीर्यवती भवेत । त्रैलोक्यं वशमानयेत । पूजनाद्दौर्भाग्यनाशी भवेत् । जपात
सिद्धीश्वरो भवेत । इति शिवम् ।
 
अथाद्यं शाम्भवं द्वितीयं शाक्तं चेति गुरुमुखात ज्ञातव्यम् । अन्यथा
शापमाप्नुयात् । उपासना द्विविधा । शाम्भवं शाक्तं चेति । एवं लोप-
नालापा । प्रथमं शंभुचन्द्र । तदनु दिवाकरेन्द्रौ । ततः परावीजं वाग्भवम् ।
ततः कामराजं शिवचन्द्र कामशम्भुहरयः । परावीजं शक्तिः । कामपरामध्ये
देवराजमेतच्छक्तिकटम् । एतेन पञ्चदशाक्षराणि भवन्ति । शम्भुप्रधानत्वाच्छा-
म्भवम् । पूर्णोऽहं शिवोऽहमद्वैतरूपोऽहं नित्यानन्दरूपोऽहं इति स्मरत् ।
नापि पूजायां व्रतनियमः । सर्वदा जपं चरत् । विनादतः कामिनीमध्ये कामि
नीर्दृष्ट्रा च सदानन्दरूपो भवेत् । दिव्याङ्गरागदेहं भूषयेत सुगन्धमाल्याम्ब -
रालङ्काराद्यैः । मांसाद्यैः शुद्धेः सुमधुरैर्भोजयेत् । मपञ्चकन पूजा कार्या
सदा कौलिको भवेत् । कुलाचारात् सर्वसिद्धीश्वरो भवेत । एकाकी शक्ति-
युक्तो भवेत् । मादनं भुक्त्वा शक्तिभुग्भवेत् । शक्तिचक्रं पूजयेत् ।