This page has been fully proofread once and needs a second look.

<page>
<ignore>
हेरम्बोपनिषत्
 
</ignore>
<ignore>
३९१
 
</ignore>
<ignore>
1
 
</ignore>
<verse>
विज्ञाय तं मृत्युमुखात् प्रमुच्यते स एवमास्थाय शरीरमेकम् ।

मायामयं मोहयतीव सर्वेवं स प्रत्यहं कुरुते कर्मकाले ॥ ९ ॥
</verse>
<verse>
स एव कर्माणि करोति देवो ह्येको गणेशो बहुधा निविष्ट: ।

म पूजितः सन् सुमुखोऽभिभूत्वा दन्तीमुखोऽभीष्टमनन्तशक्तिः ॥
</verse>
<verse>
स वै बलं बलिनामग्रगण्यः पुण्यः शरण्यः सकलस्य जन्तोः ।

नमेकदन्तं गजवक्त्रमीशं विज्ञाय दुःखान्तमुपैति सद्यः ॥ ११ ॥
</verse>
<verse>
लम्बोदरोऽहं पुरुषोत्तमोऽहं विघ्नान्तकोऽहं विजयात्मकोऽहम् ।

नागाननोऽहं नमतां सुसिद्धः स्कन्द्राग्रगण्यो निखिलोऽहमस्मि ॥
</verse>
<verse>
न मेऽन्तरायोंयो न च कर्मलोपो न पुण्यपापे मम तन्मयस्य ।

एवं विदित्वा गणनाथतत्त्वं निरन्तरायं निजबोधबीजम् ॥ १३ ॥
श्र
</verse>
<verse>क्षे
मङ्करं सन्ततसौख्य हेतुं प्रयान्ति शुद्धं गणनाथतत्त्वम् ।

विद्यामिमां प्राप्य गौरी महेशादभीष्टसिद्धिं समवाप सद्यः ।
 

पूज्या परा सा च जजाप मन्त्रं शम्भुं पतिं प्राप्य मुदं ह्यवाप ॥
 
</verse>
<p>
य इमां हेरम्बोपनिषदमधीते स सर्वाn कामाn लभते । स

सर्वपापैर्मुक्तो भवति । स सर्वेवैर्वेदैर्ज्ञातो भवति । स सर्वेवैर्देवैः पूजितो भवति ।

स सर्ववेदपारायणफलं लभते । स गणेशसायुज्यमवाप्नोति य एवं वेद ।

इत्युपनिषत् ॥
 
</p>
<trailer>
इति हेरम्बोपनिषत् समाप्ता
 
</trailer>
</page>