This page has not been fully proofread.

हेरम्बोपनिषत्
 
३९१
 
1
 
विज्ञाय तं मृत्युमुखात् प्रमुच्यते स एवमास्थाय शरीरमेकम् ।
मायामयं मोहयतीव सर्वे स प्रत्यहं कुरुते कर्मकाले ॥ ९ ॥
स एव कर्माणि करोति देवो ह्येको गणेशो बहुधा निविष्ट: ।
म पूजितः सन् सुमुखोऽभिभूत्वा दन्तीमुखोऽभीष्टमनन्तशक्तिः ॥
स वै बलं बलिनामग्रगण्यः पुण्यः शरण्यः सकलस्य जन्तोः ।
नमेकदन्तं गजवक्त्रमीशं विज्ञाय दुःखान्तमुपैति सद्यः ॥ ११ ॥
लम्बोदरोऽहं पुरुषोत्तमोऽहं विघ्नान्तकोऽहं विजयात्मकोऽहम् ।
नागाननोऽहं नमतां सुसिद्धः स्कन्द्राग्रगण्यो निखिलोऽहमस्मि ॥
न मेऽन्तरायों न च कर्मलोपो न पुण्यपापे मम तन्मयस्य ।
एवं विदित्वा गणनाथतत्त्वं निरन्तरायं निजबोधबीजम् ॥ १३ ॥
श्रमङ्करं सन्ततसौख्य हेतुं प्रयान्ति शुद्धं गणनाथतत्त्वम् ।
विद्यामिमां प्राप्य गौरी महेशादभीष्टसिद्धिं समवाप सद्यः ।
 
पूज्या परा सा च जजाप मन्त्रं शम्भुं पतिं प्राप्य मुदं यवाप ॥
 
य इमां हेरम्बोपनिषदमधीते स सर्वान कामान लभते । स
सर्वपापैर्मुक्तो भवति । स सर्वेर्वेदैर्ज्ञातो भवति । स सर्वेदेवैः पूजितो भवति ।
स सर्ववेदपारायणफलं लभते । स गणेशसायुज्यमवाप्नोति य एवं वेद ।
इत्युपनिषत् ॥
 
इति हेरम्बोपनिषत् समाप्ता