2026-02-10 03:01:32 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>३९०
</ignore>
<ignore>शैव-उपनिषदः
</ignore>
<title>हेरम्बोपनिषत्
</title>
<p>सह नाववतु इति - --शान्तिः
</p>
<p>अथातो हेरम्बोपनिषदं व्याख्यास्यामः । गौरी सा सर्वमङ्गला सर्वज्ञं
परिसमेत्योवाच ।
</p>
<verse n="1">अधीहि भगवन्नात्मविद्यां प्रशस्तां यया जन्तुर्मुच्यते मायया च ।
यतो दुःखाद्विमुक्तो याति लोकं परं शुभ्रं केवलं सात्त्विकं च ॥
</verse>
<verse>तां वै स होवाच महानुकम्पासिन्धुर्बन्धुर्भुवनस्य गोप्ता ।
श्रद्धस्वैगतद्गौरि सर्वात्मना त्वं मा ते भूयः संशयोऽस्मिन् कदाचित् ॥
</verse>
<verse>हेरम्बतत्त्वे परमात्मसारे नो वै योगान्नैव तपोबलेन ।
नैवायुधप्रभावतो महेशशि दग्धं पुरा त्रिपुरं दैवयोगात् ॥ ३ ॥
</verse>
<verse>तस्यापि हेरम्बगुरोः प्रसादाद्यथा विरिञ्चिर्गरुडो मुकुन्दः ।
देवस्य यस्यैव बलेन भूयः स्वं स्वं हितं प्राप्य सुखेन सर्वम् ॥
</verse>
<verse>मोदन्ते स्वे स्वे पदे पुण्यलब्धे सर्वैर्देवैः पूजनीयो गणेशः ।
प्रभुः प्रभूणामपि विघ्नराज :जः सिन्दूरवर्णः पुरुषः पुराणः ॥ ५ ॥
</verse>
<verse>लक्ष्मीसहायोऽद्वयकुञ्जराकृतिश्चतुर्भुजश्चन्द्रकलाकलापः ।
मायाशरीरो मधुरस्वभावस्तस्य ध्यानात् पूजनात्तत्स्वभावाः ॥
</verse>
<verse>संसारपारं मुनयोऽपि यान्ति स वा ब्रह्मा स प्रजेशो हरिः सः ।
इन्द्रः स चन्द्रः परमः परात्मा स एव सर्वो भुवनस्य साक्षी ॥
</verse>
<verse>स सर्वलोकस्य शुभाशुभस्य तं वै ज्ञात्वा मृत्युमत्येति जन्तुः ।
नान्यः पन्था दुःखविमुक्तिहेतुः सर्वेषु भूतेषु गणेशमेकम् ॥८॥
</verse>
</page>
<ignore>३९०
<ignore>शैव-उपनिषदः
<title>हेरम्बोपनिषत्
<p>सह नाववतु इति
<p>अथातो हेरम्बोपनिषदं व्याख्यास्यामः । गौरी सा सर्वमङ्गला सर्वज्ञं
परिसमेत्योवाच ।
<verse n="1">अधीहि भगवन्नात्मविद्यां प्रशस्तां यया जन्तुर्मुच्यते मायया च ।
यतो दुःखाद्विमुक्तो याति लोकं परं शुभ्रं केवलं सात्त्विकं च ॥
<verse>तां वै स होवाच महानुकम्पासिन्धुर्बन्धुर्भुवनस्य गोप्ता ।
श्रद्धस्वै
<verse>हेरम्बतत्त्वे परमात्मसारे नो वै योगान्नैव तपोबलेन ।
नैवायुधप्रभावतो महे
<verse>तस्यापि हेरम्बगुरोः प्रसादाद्यथा विरिञ्चिर्गरुडो मुकुन्दः ।
देवस्य यस्यैव बलेन भूयः स्वं स्वं हितं प्राप्य सुखेन सर्वम् ॥
<verse>मोदन्ते स्वे स्वे पदे पुण्यलब्धे सर्वैर्देवैः पूजनीयो गणेशः ।
प्रभुः प्रभूणामपि विघ्नरा