This page has been fully proofread once and needs a second look.

<page>
<ignore>३८८</ignore>
<ignore>शैव-उपनिषदः</ignore>
<p merge-next="true">वाचामगोचरं नित्यमुक्तस्वरूपं कैवल्यानन्दरूपं परमानन्दलक्षणापरि-
च्छिन्नानन्तज्योतिः शाश्वतं शश्वद्विभाति । तदभ्यन्तरसंस्थानेऽमितानन्द-
चिद्रूपाचलमखण्डपरमानन्दविशेषं बोधानन्दमहोज्ज्वलमनन्तचित्सागरकल्लो-
लजालशिखराकारं नित्यमङ्गलमन्दिरमनन्तानन्दबोधसौधविशेषैरभितोऽनिशं
प्रज्वलितं चिदानन्दानन्तचित्सागरैः परिधीकृतं ब्रह्मसाक्षात्कारानु-
भवविशेषबोधसारतरानन्तप्राकारैः समुज्ज्वलितमनन्तसहस्रकैवल्यानन्दवनोप-
वनैः सुशोभितमनन्तानन्दविभूतिदिव्यतेजःपर्वतसमष्ट्याकारं स्वात्मानन्दानु-
भवविज्ञानघनरुद्राक्षकल्पतरुवनैरतिमङ्गलमनन्तानन्दचित्सागरमथनोद्भूतरसप्र-
वाहैरलङ्कृतमद्वितीयं स्वयंप्रकाशमनिशं ब्रह्मानन्दामृतरसाम्भोनिधितर-
ङ्गिण्याः प्रवाहैरतिमङ्गलं निरुपमनिरवद्यनित्यशुद्धबुद्धनिरतिशयतेजोराशि-
विशेषानन्तानन्दविमानजालावलिभिः समाकुलं क्रीडानन्तमण्टपविशेषैर्विशे-
षितं बोधानन्दमयानन्तदिव्यतेजोराशिविशेषचैतन्यप्रासादैः परिवेष्टितमनन्त-
परमानन्दामृतरसाब्धिकल्लोलतरङ्गावलिभिर्दिव्यतेजोमयछत्रचामरध्वजपताका-
वितानतोरणादिभिरलङ्कृतं परमानन्दव्यूहैर्नित्यमुक्तैरभितस्ततं तच्चानन्तब्रह्म-
तेजोमयबिल्वकल्पतरुवनैराकुलं वेदान्तसारभूतसिद्धान्तानन्तस्कन्धैर्विराजितं
महावाक्यार्थस्वरूपानन्तशाखासमन्वितं सच्चिदानन्दस्वरूपानन्तानन्दपत्रैस्सु-
मङ्गलमद्वितीयात्मचैतन्यवृन्तैः सुसंलग्नं विज्ञानघनमानन्दामृतकल्लोलानन्त-
पुष्पैरलङ्कृतमखण्डानन्दाह्लादानन्तप्रवाहदिव्यसुगन्धैः समाकुलं निरतिशया-
नन्दामृतसारसागरानन्तमकरन्दाकारं निश्शङ्कानन्दमोक्षसाम्राज्यचिन्तामणि-
फलानन्तैर्विराजितं वाचामगोचरमनोन्मनानन्दाम्बुधिदिव्यतेजोमयज्वालाजाल-
दीपितात्यन्तोन्नतानन्तशिखराकारं शिवालयं शिवानन्दमयदिव्यनानालीला-
विग्रहविलासविलसितानन्दाविर्भावचरित्रचित्रीकृतचित्रैरलङ्कृतं मूर्तिमद्भिः
शिवधर्मानन्तोन्नतगोपुरद्वाराकारैरसंख्यैरावृतं शिवधर्मानन्दमूर्तिवृषभावलिभिः</p>
</page>