This page has been fully proofread once and needs a second look.

<page>
<ignore>
३८८
 
</ignore>
<ignore>
शैव-उपनिषदः
 
</ignore>
<p>
वाचामगोचरं नित्यमुक्तस्वरूपं कैवल्यानन्दरूपं परमानन्दलक्षणापरि-

च्छिन्नानन्तज्योतिः शाश्वतं शश्वद्विभाति । तदभ्यन्तरसंस्थानेऽमितानन्द-

चिद्रूपाचलमखण्डपरमानन्दविशेषं बोधानन्दमहोज्ज्वलमनन्तचित्सागर कल्लो-

लजालशिखराकारं नित्यमङ्गलमन्दिरमनन्तानन्दबोधसौध विशेषैरभितोऽनिशं

प्रज्वलितं चिदानन्दानन्तचित्सागरैः परिधीकृतं ब्रह्मसाक्षात्कारानु-

भवविशेषबोधसारतरानन्तप्राकारैः समुज्ज्वलितमनन्तसहस्रकैवल्यानन्दवनोप-

वनैः सुशोभितमनन्तानन्द विभृविभूतिदिव्यतेजः पर्वतसमष्ट्याकारं स्वात्मानन्दानु-

भवविज्ञानघनरुद्राक्षकल्पतरुवनैर तिमङ्गलमनन्तानन्दचित्सागरमथनोद्भूतरसप्र -
-
वाहैरलङ्कृतमद्वितीयं स्वयंप्रकाशमनिशं ब्रह्मानन्दामृतरसाम्भोनिधितर-

ङ्गिण्याः प्रवाहैरतिमङ्गलं निरुपमनिरवद्यनित्यशुद्धबुद्ध निरतिशयतेजोराशि
-
विशेषानन्तानन्द विमान विमानजालावलिभिः समाकुलं क्रीडानन्तमण्टपविशेषैर्विशे-

षितं बोधानन्दमयानन्तदिव्यतेजोराशिविशेचैतन्यप्रासादैः परिवेष्टितमनन्त-

परमानन्दामृतरसाब्धिकल्लोलतरङ्गावलिभिर्दिव्यतेजोमयछत्रचामरध्वजपताका-

वितानतोरणादिभिरलङ्कृतं परमानन्दव्यू हेहैर्नित्यमुक्तैरभितस्ततं तच्चानन्तब्रह्म-

तेजोमय बिल्वकल्पतरुवनैराकुलं वेदान्तसारभूत सिद्धान्तानन्तस्कन्धैर्विराजितं

महावाक्यार्थस्वरूपानन्तशाखासमन्वितं सच्चिदानन्दस्वरूपानन्तानन्दपत्रैस्सु-

मङ्गलमद्वितीयात्मचैतन्यवृन्तैः सुसंलग्नं विज्ञानघनमानन्दामृतकल्लोलानन्त-

पुप्ष्पैरलङ्कृतमखण्डानन्दाह्लादानन्तप्रवाहदिव्य सुगन्धैः समाकुलं निरतिशया-

नन्दामृतसारसागरानन्तमकरन्दाकारं निश्शङ्कानन्दमोक्षसाम्राज्यचिन्तामणि-

फलानन्तैर्विराजितं वाचामगोचरमनोन्मनानन्दाम्बुधिदिव्यतेजोमयज्वालाजाल-

दीपितात्यन्तोन्नतानन्तशिखराकारं शिवालयं शिवानन्दमयदिव्यनानालीला-

विग्रहविलासविलसितानन्दाविर्भावचरित्र चित्रीकृतचित्रैरलङ्कृतं मूर्तिमद्भिः

शिवधर्मानन्तोन्नतगोपुरद्वाराकारैर संख्यैरावृतं शिवधर्मानन्दमूर्तिवृषभावलिभिः
 
</p>
</page>