This page has been fully proofread once and needs a second look.

<page>
<ignore>
सिद्धान्तसारोपनिषत्
 
</ignore>
<ignore>
३८७
 
</ignore>
<p>
कारम् । तन्मध्ये अनन्त दिव्यतेजः पर्वतसमष्ट्याकारमपरिच्छिन्नानन्तशुद्ध-

बोधानन्दमण्डलं वाचामगोचरानन्दब्रह्मतेजोराश्याकारमनन्तशिखरोज्ज्वलम-

ग्वण्डतेजोमण्डलविशेषं नित्यानन्दमूर्तिमद्भिः परममङ्गलैः परिधीकृतम-

परिछिन्नानन्दसागराकारं ब्रह्मानन्दरसक्रीडावनैः सुशोभितमनन्तसहस्रान-

न्द्रप्राकारैः समुज्ज्वलितं मुक्तिकल्पतरुवनैः परिवेष्टितं विभूतिकल्प-

तरुवनैरभितस्ततमनन्तानन्दविमान जालसंकुलमनन्तबोधसौध विशेषैरभितोऽनिशं

प्रज्वलितं क्रीडानन्तमण्डपविशेषैर्विशेषितं बोधानन्दमयानन्तपरमछत्रध्वज-

चामरवितानतोरणैरलङ्कृतं शुद्धानन्दविशेषसमष्टिमण्डल विशेषानन्तप्रासादोन्न-

तोज्ज्वलमखण्ड चिद्धनानन्दविशेषं परमानन्दव्यू है र्नित्यमुक्तैरभितस्ततमनन्त-

दिव्यतेजः पर्वतसमष्ट्याकारमपरिच्छिन्नानन्तशुद्धबोधानन्दमण्डलं परमानन्द-

लहरीवनशोभितम सङ्ख्याकानन्दसमुद्रमनन्तज्वालाजालैरलङ्कृतं चिदानन्द-

तरङ्गिण्याः प्रवाहैरतिमङ्गलं स्वात्मानन्दानुभवामृतकल्लोलरसप्रवाहैरलङ्कृतं स्व-

प्रकाशानन्तानन्दते जोज्वालाजालैरावृतम् । तदभ्यन्तरे चिन्मयानन्दासन-

मुज्ज्वलम् । तदुपरि विभात्यखण्डानन्दतेजोमण्डलम् । तदभ्यन्तरसमासीनाः

आनन्दसागरनित्यतृप्ताः शिवाद्वैतोपासकाः स्वात्मलिङ्गार्चका स्तिष्ठन्ति ।

निरतिशयदिव्यतेजोमण्डलाकारा आनन्दघनसागराः परमकैवल्यस्वरूपानन्त-

गणाः परिसेवन्ते ॥
 
</p>
<trailer>
इति पञ्चमावरण
 
म्</trailer>
<metadata>div.n = 6</metadata>
<heading>
षष्ठावरण
 
परम
म्</heading>
<p merge-next="true">परम
चिद्विलाससमष्ट्याकारं निर्मलं निरवद्यं निराश्रयमतिनिर्मला-

नन्तकोटिरविप्रकाशैकोज्ज्वलमनन्तोपनिषदर्थस्वरूपमखिलप्रमाणातीतं मनो-
 
</p>
</page>