This page has been fully proofread once and needs a second look.

<page>
<ignore>३८६</ignore>
<p>शैव-उपनिषदः</p>
<metadata>div.n = 4</metadata>
<heading>चतुर्थावरणम्</heading>
<p>तन्मध्येऽमितबोधानन्दाचलो विभाति । तदुपरि परमकैवल्यानन्द-
रूपानन्तशिखराः सन्ति । तत्र परमानन्दामृतमयैर्दिव्यानन्तप्राकारो
ज्वलति । दिव्यगन्धैः स्वभावचिन्मयैरनन्तब्रह्मवनैरतिशोभितमानन्दकल्पतरुव-
नैरावतं मुक्तिकल्पतरुवनैः सुशोभितं पारावारानन्दरसनिर्भरैरतिशोभितं स्वा-
त्मानन्दानुभवतरङ्गिण्याः प्रवाहैरतिमङ्गलं परमकल्याणमनन्तविभवममितते-
जोराश्याकारमनन्तब्रह्मतेजोराशिसमष्ट्याकारमनन्तदिव्यतेजोज्वालाजालैरभि-
तोऽनिशं प्रज्वलितमनन्तदिव्यापारब्रह्मविद्यासाम्राज्याधिदैवतममोघनिजमन्द-
कटाक्षचिदानन्दमयानेकप्रासादविशेषैः परिवेष्टितं ब्रह्मविद्यामयैरनन्तप्रकारा-
नन्दामृतदिव्यमङ्गलविमानैः सुशोभितं चिद्रूपविलासनिभचिन्मयासनं विरा-
जते । अधितिष्ठन्ति तेजोराशिं तदन्तर्गतदिव्यतेजोविशेषमखिलपवित्राणां
परमं पवित्रं चिद्रूपपरानन्तनित्यमुक्तैरभिव्याप्तं सच्चिदानन्दरूपा: शिवा-
त्मैक्योपासकाः ॥</p>
<trailer>इति चतुर्थावरणम्</trailer>
<pmetadata>div.n = 5</pmetadata>
<heading>पञ्चमावरणम्</heading>
<p merge-next="true">अनन्तानन्दपर्वतैः परमकौतुकमाभाति । तदुपरि ज्वलति निरति-
शयानन्ददिव्यतेजोराशिमण्डलम् । चिदानन्दमयानन्तप्राकारविशेषैः परिवेष्टि-
तम् । तच्च परमकल्याणविलासविशेषम् । तदखण्डदिव्यतेजोमण्डलाकारं
परमानन्दसौदामिनीचयोज्ज्वलम् । तच्चामितपरमतेजःपरमविहारसंस्थानविशेषं
परमतेजोमण्डलविशेषं परमानन्दामृतब्रह्मविद्यामयानन्तसमुद्रं चिदानन्दतरङ्गा-</p>
</page>