This page has been fully proofread once and needs a second look.

<page>
<ignore>
३८६
 
रूपानन्त शिखराः
 
</ignore>
<p>
शैव-उपनिषदः
 
</p>
<metadata>div.n = 4</metadata>
<heading>
चतुर्थावरण
 
म्</heading>
<p>
तन्मध्येऽमितबोधानन्दाचलो विभाति । तदुपरि परमकैवल्यानन्द-

रूपानन्तशिखराः
सन्ति । तत्र परमानन्दामृतमयैर्दिव्यानन्तप्राकारो

ज्वलति । दिव्यगन्धैः स्वभावचिन्मयैरनन्तब्रह्मवनैरतिशोभितमानन्दकल्पतरुव-

नैरावतं मुक्तिकल्पतरुवनैः सुशोभितं पारावारानन्दरसनिर्भरैरतिशोभितं स्वा-

त्मानन्दानुभवतरङ्गिण्या :याः प्रवाहैरतिमङ्गलं परमकल्याणमनन्तविभवममितते-

जोराश्याकारमनन्तब्रह्मतेजोराशिसमष्ट्याकारमनन्तदिव्यतेजो ज्वालाजालैरभि -
 
-
तोऽनिशं प्रज्वलितमनन्तदिव्यापारब्रह्मविद्यासाम्राज्याधिदैवतममोघनिजमन्द-

कटाक्षचिदानन्दमयानेकप्रासादविशेषैः परिवेष्टितं ब्रह्मविद्यामयैरनन्तप्रकारा-

नन्दामृत दिव्यमङ्गलविमानैः सुशोभितं चिद्रूपविलासनिभचिन्मयासनं विरा-

जते । अधितिष्ठन्ति तेजोराशिं तदन्तर्गत दिव्यतेजो विशेमखिलपवित्राणां

परमं पवित्रं चिद्रूपपरानन्त नित्यमुक्तैरभिव्याप्तं सच्चिदानन्दरूपा: शिवा-
स्

त्
मैक्योपासकाः ॥
 
</p>
<trailer>
इति चतुर्थावरणम्
 
पश्
</trailer>
<p>div.n = 5</p>
<heading>पञ्
चमावरण
 
म्</heading>
<p merge-next="true">
अनन्तानन्दपर्वतैः परमकौतुकमाभाति । तदुपरि ज्वलति निरति-

शयानन्द दिव्यतेजोराशिमण्डलम् । चिदानन्दमयानन्तप्राकारविशेषैः परिवेष्टि-

तम् । तच्च परमकल्याणविलासविशेषम् । तदखण्डदिव्यतेजोमण्डलाकारं

परमानन्दसौदामिनीचयोज्ज्वलम् । तच्चामितपरमतेजः परम परमविहार संस्थानविशेषं

परमतेजोमण्डल विशेषं परमानन्दामृतब्रह्मविद्यामयानन्तसमुद्रं चिदानन्दतरङ्गा-
 
</p>
</page>