This page has not been fully proofread.

३८६
 
रूपानन्त शिखराः
 
शैव-उपनिषदः
 
चतुर्थावरणम
 
तन्मध्येऽमितबोधानन्दाचलो विभाति । तदुपरि परमकैवल्यानन्द-
सन्ति । तत्र परमानन्दामृतमयैर्दिव्यानन्तप्राकारो
ज्वलति । दिव्यगन्धैः स्वभावचिन्मयैरनन्तब्रह्मवनैरतिशोभितमानन्दकल्पतरुव-
नैरावतं मुक्तिकल्पतरुवनैः सुशोभितं पारावारानन्दरसनिभरैरतिशोभितं स्वा-
त्मानन्दानुभवतरङ्गिण्या : प्रवाहरतिमङ्गलं परमकल्याणमनन्तविभवममितते-
जोराश्याकारमनन्तब्रह्मतेजोराशिसमष्ट्याकारमनन्तदिव्यतेजो ज्वालाजालैरभि -
 
तोऽनिशं प्रज्वलितमनन्तदिव्यापारब्रह्मविद्यासाम्राज्याधिदैवतममोघनिजमन्द-
कटाक्षचिदानन्दमयानेकप्रासादविशेषैः परिवेष्टितं ब्रह्मविद्यामयैरनन्तप्रकारा-
नन्दामृत दिव्यमङ्गलविमानैः सुशोभितं चिद्रूपविलासनिभचिन्मयासनं विरा-
जते । अधितिष्ठन्ति तेजोराशिं तदन्तर्गत दिव्यतेजो विशेपमखिलपवित्राणां
परमं पवित्रं चिद्रूपपरानन्त नित्यमुक्तैरभिव्याप्तं सच्चिदानन्दरूपा: शिवा-
स्मैक्योपासकाः ॥
 
इति चतुर्थावरणम्
 
पश्चमावरणम
 
अनन्तानन्दपर्वतैः परमकौतुकमाभाति । तदुपरि ज्वलति निरति-
शयानन्द दिव्यतेजोराशिमण्डलम् । चिदानन्दमयानन्तप्राकारविशेषैः परिवेष्टि-
तम् । तच्च परमकल्याणविलासविशेषम् । तदखण्डदिव्यतेजोमण्डलाकारं
परमानन्दसौदामिनीचयोज्ज्वलम् । तच्चामितपरमतेजः परम विहार संस्थानविशेषं
परमतेजोमण्डल विशेषं परमानन्दामृतब्रह्मविद्यामयानन्तसमुद्रं चिदानन्दतरङ्गा-