This page has been fully proofread once and needs a second look.

<page>
<ignore>
सिद्धान्तसारोपनिषत्
 
</ignore>
<ignore>
३८५
 
</ignore>
<p>
भावचिन्मयैरनन्तब्रह्मवनैरतिशोभितमपरब्रह्मविद्यासाम्राज्याधिदैवतमनन्तमोक्ष
-
साम्राज्याद्वितीयमेकं परमकल्याणमनन्त विभवममितबोधानन्दाचलोपरिस्थितं

शुद्धबोधमयानन्तप्रासादैः संवृतमानन्दमयानन्तविमानावलीभिर्विराजितमत्या-

श्चर्यानन्तविभूतिसममनन्तशुद्धानन्दपरिषैःघैः समावृतमनन्तदिव्यतेजाज्वाला-
 

जालैरभितोऽनिशं प्रज्वलन्तमत्याश्चर्यानन्तविभूतिसमष्ट्याकारमानन्दरसप्रवा-

हैरलङ्कृतममितविज्ञानतरङ्गिण्याः प्रवाहैरतिमङ्गलं ब्रह्मतेजोविशेषाकारैर-

नन्तब्रह्मवनैरभितस्ततं ब्रह्मविद्याकल्पतरुवनैः सुशोभितं बोधकल्पतरुवनैः

परिवेष्टितमनन्तनित्यमुक्तैरभिव्याप्तं तदभ्यन्तरेऽनन्तदिव्यमङ्गलामनं विराजते ।

तदुपरि नित्यज्ञानानन्दरूपा अद्वैतशिवपूजकास्तिष्ठन्ति ॥
</p>
<trailer>
इति द्वितीयावरणम्
 
</trailer>
<metadata>div.n = 3</metadata>
<heading>
तृतीयावरण
 
म्</heading>
<p>
तन्मध्ये चिदानन्दाचलो विभाति । तदुपरि ब्रह्मतेजोमयानन्तशिखराः

सन्ति । तत्र ब्रह्मविद्यामयानन्तपरिक्षाःघाः सन्ति । वाचामगोचरानन्तचिन्मया-

नन्दवनैः परिवेष्टितं ब्रह्मकल्पतरुवनैः समावृतं अमृतकल्पतरुवनैरुपशोभितं

ब्रह्मतेजोमयानन्दरसप्रवाहैरतिशोभितं ब्रह्मविद्यातरङ्गिण्या :याः प्रवाहःहैः सुमङ्गलं

निरतिशयानन्तदिव्यानन्दतेजोज्वालाराशिमण्डलं ज्वलति । परमानन्दमया-

नन्तविमानावलिभिः संकुलमनन्तचिन्मयप्रासाद जालसंकुलमनन्तब्रह्मानन्दानु-

भवपताकाध्वजतोरणैरलङ्कृतमनन्त नित्यमुक्तैरभिव्याप्तं तदभ्यन्तरसंस्थानेऽन-

न्तचिन्मयासनं विराजते । तस्योपरि नित्यशुद्धबुद्धमुक्तशिवैक्यभक्तास्तिष्ठन्ति ॥
</p>
<trailer>
इति तृतीयावरण
 
म्</trailer>
<ignore>
U 49
 
</ignore>
</page>