This page has been fully proofread once and needs a second look.

<page>
<ignore>
३८४
 
</ignore>
<ignore>
शैव-उपनिषदः
 
-
 
</ignore>
<ignore>-</ignore>
<p>
मया । हे भारद्वाज शृणु वाक्यमेतत् । परमकैवल्यः स एव कैलासः ।

ईश्वरकृपया परमपरिपक्वचित्ता जानन्ति । नान्ये जानन्ति गुह्यमिदम-

निर्वाच्यममितबोधसागरममितानन्दसमुद्रमखण्डानन्दरूपन्निरवयवं निराधारं

निर्विकारं निरञ्जनमनन्तं ब्रह्मानन्दसमष्टिकन्दं तैरानन्दपुरुषैश्चिद्रूपैरधिष्ठितं

ब्रह्मानन्दमयानन्तनिरतिशयानन्दसागराकारमात्मसमानानन्दविभूतिपुरुषान
-
न्तानन्दमण्डितं नित्यमङ्गलमनन्तविभवम् । ब्रह्मानन्दमयानन्तप्राकारप्रासाद-

तोरणविमानोपवनावलीभिर्ज्वलच्छिखरैरुपलक्षितो निरुपमनित्यनिरवद्यनिरति-

शयनिरवधिकब्रह्मानन्दाचलो विराजते । तदुपरि ज्वलति निरतिशयानन्द-

दिव्यतेजोराशिः । तदभ्यन्तरसंस्थाने शुद्धबोधानन्दलक्षणं विभाति ।

तदन्तराले चिन्मयवेदिकाऽऽनन्दवेदिकाऽऽनन्दवनविभूषिता । तत्र वेद-

कल्पतरुवनं यज्ञकल्पतरुवनं योगकल्पतरुवनम् । तदभ्यन्तre अमिततेजोरा-

शिस्वात्मज्योतिर्ज्वलति । तत्र परममङ्गलासनं विराजते । तस्योपरि

समासीनानन्तपरिपालकनन्द्यादिगणपाः सन्ति । अनन्तोत्कटजलदमण्डलं

निरतिशयदिव्यतेजोमण्डलवृन्दाकारपरमानन्दशुद्धबोधस्वरूपमनन्तानन्दसौदा-

मिनीपरमविलासं निरतिशयानन्तपरमानन्दपारावारजालम् ॥
 
</p>
<trailer>
इति प्रथमावरणम्
 
</trailer>
<metadata>div.n = 2</metadata>
<heading>
द्वितीयावरणम्
 
</heading>
<p merge-next="true">
तन्मध्ये कल्याणाचलो विभाति । अनन्तानन्दपर्वत शिखरैरभिव्याप्तम-

नन्तबोधानन्द व्यूहैरभितस्ततं ब्रह्मविद्याप्रवाहैरानन्दरसनिर्भरैः क्रीडानन्द-

पर्वतैरनन्तैरभिव्याप्तं ब्रह्मविद्यामयैरनन्तप्राकारैरानन्दामृतमयैर्दिव्यगन्धैः स्व-
 
</p>
</page>