This page has been fully proofread once and needs a second look.

<page>
<ignore lang="sa">
सिद्धान्तसारोपनिषत्
 
</ignore>
<ignore lang="sa">
३८३
 
</ignore>
<verse lang="sa">
दारूद्भवं निर्ऋतिना यमेन सुपूज्यमासीन्मारकतं च रुद्रैः ।

सुभस्मरूपं सूक्ष्मरूपं च लक्ष्म्या शैलान्येव मुनयो भेजिरेऽथ
॥</verse>
<verse>
सरस्वती रत्नरूपं च दुर्गा हैमं लिङ्गं पूजयामास भक्त्या ।

जलैरुष्णै: शीतलैर्वा कदाचिदज्ञानाद्वा पतितैः पत्रपुप्ष्पैः ।

तुष्टो यच्छेद्वाञ्छितार्थं महेशः किं दुर्लभं शिवभक्तस्य लोके ॥
</verse>
<verse>
अत्यल्पमपि नैवेद्यं फलं वा जलमेव वा ।
 

तदेव प्राशयित्वा ब्रह्मभूयाय कल्पते ॥
 
</verse>
<verse lang="sa">
किमन्यैर्धार्यैर्भस्मनि शुद्धपुण्डेड्रे स्थिते किमन्यैर्मन्त्रवर्येऽथ मन्त्रैः ।

शिवे स्थिते सर्वदेवाधिराजे भारद्वाज निर्जरैः किं तथाऽन्यैः ॥
</verse>
<verse>
सिद्धान्तोऽयं निश्चितोऽस्माभिरेष भारद्वाज गुह्यमेतन्न वाच्यम् ।

सदा प्रशान्ताय न नास्तिकाय परीक्ष्याथ ब्रूहि सर्वार्थवेत्रे ॥
 
</verse>
<p lang="sa">
इत्याह
 
भगवान् स्कन्दः । तामेनां सिद्धान्तशिखां प्रातर-

धीयानो रात्रिकृतं पापं नाशयति । सायमधीयानोऽह्निकृतं पापं नाशयति ।

सार्वकालं प्रयुञ्जानः पापैरपापो भवतीति विज्ञायते । इति वेदवचनं

भवति । इति वेदवचनं भवति । ॐ सत्यमित्युपनिषत् ॥
 
</p>
<trailer text="END" lang="sa">
इति सिद्धान्तशिखोपनिषत् समाप्ता
 
</trailer>
<title text="START" lang="sa">
सिद्धान्तसारोपनिषत्
 
</title>
<p lang="sa">
भद्रं कर्णेभिः - इति शान्तिः
 
--
 
</p>
<metadata>div.n = 1</metadata>
<heading lang="sa">
प्रथमावरण
 
म्</heading>
<p lang="sa" merge-next="true">
अथ भारद्वाजः कुमारं पप्रच्छ । भगवन् मे ब्रूहि परमतत्त्व कैलास-
 

रहस्यम् । तद्गुह्यमुवाच स्कन्दः । साधु पृष्टं सर्वेवं निवेदयामि यथाज्ञातं
 
</p>
</page>