This page has not been fully proofread.

सिद्धान्तसारोपनिषत्
 
३८३
 
दारूद्भवं निर्ऋतिना यमेन सुपूज्यमासीन्मारकतं च रुद्रैः ।
सुभस्मरूपं सूक्ष्मरूपं च लक्ष्म्या शैलान्येव मुनयो भेजिरेऽथ ।
सरस्वती रत्नरूपं च दुर्गा हैमं लिङ्गं पूजयामास भक्त्या ।
जलैरुष्णै: शीतलैर्वा कदाचिदज्ञानाद्वा पतितैः पत्रपुप्पैः ।
तुष्टो यच्छेद्वाञ्छितार्थ महेशः किं दुर्लभं शिवभक्तस्य लोके ॥
अत्यल्पमपि नैवेद्यं फलं वा जलमेव वा ।
 
तदेव प्राशयित्वा ब्रह्मभूयाय कल्पते ॥
 
किमन्यैर्धार्यैर्भस्मनि शुद्धपुण्डे स्थिते किमन्यैर्मन्त्रवर्येऽथ मन्त्रैः ।
शिवे स्थिते सर्वदेवाधिराजे भारद्वाज निर्जरैः किं तथाऽन्यैः ॥
सिद्धान्तोऽयं निश्चितोऽस्माभिरेष भारद्वाज गुह्यमेतन्न वाच्यम् ।
सदा प्रशान्ताय न नास्तिकाय परीक्ष्याथ ब्रूहि सर्वार्थवेत्रे ॥
 
इत्याह
 
भगवान् स्कन्दः । तामेनां सिद्धान्तशिखां प्रातर-
धीयानो रात्रिकृतं पापं नाशयति । सायमधीयानोऽह्निकृतं पापं नाशयति ।
सार्वकालं प्रयुञ्जानः पापैरपापो भवतीति विज्ञायते । इति वेदवचनं
भवति । इति वेदवचनं भवति । ॐ सत्यमित्युपनिषत् ॥
 
इति सिद्धान्तशिखोपनिषत् समाप्ता
 
सिद्धान्तसारोपनिषत्
 
भद्रं कर्णेभिः - इति शान्तिः
 
--
 
प्रथमावरणम
 
अथ भारद्वाजः कुमारं पप्रच्छ । भगवन् मे ब्रूहि परमतत्त्व कैलास-
 
रहस्यम् । तद्गुह्यमुवाच स्कन्दः । साधु पृष्टं सर्वे निवेदयामि यथाज्ञातं