This page has not been fully proofread.

३८२
 
शैव-उपनिषदः
 
द्वात्रिंशद्रुद्राक्षाः कण्ठमालाप्रयुक्ताः
शिखायामेको द्विचत्वारिंशदुक्ताः ।
शिरोधार्याः कर्णयोर्द्वादशाऽथ
 
शतत्रयं तूपवीतं च बाह्वोः ॥
 
द्वात्रिंशदुक्ता मणिबन्धयोश्च चतुर्विंशाः शतमष्टौ पार्थम् ।
पुरा लीना: सृष्टिकालाच्छिवस्य पञ्चाक्षरे मन्त्रवर्ये समस्ताः ।
भूतानि पञ्च वेदा आगमाश्च शिवालब्धोऽभून्मन्त्रवर्यो विधाता ॥
देहिनो देहमायान्ति न यावन्मन्त्रनायकः ।
 
तावत्पापानि गर्जन्ति सत्यं सत्यं पुनः पुनः ॥
 
योऽयं नकारः सोऽयमकारः स सद्योजातो भूऋग्वेद: संपुटमुच्यते ।
योऽयं मकारः सोऽयमुकारः स वामदेव आपो यजुर्वेदो वक्त्रमुच्यते ।
योऽयं शिकारः सोऽयं मकारः स घोरः स वायुः सामवेदो गुण उच्यते ।
योऽयं वकारः सोऽयं नादः स तत्पुरुषः स तेजोऽथर्ववेदाऽघोरमुच्यते ।
योऽयं यकारः तदिदं समस्तमोमिति निर्विशेषप्रणवः स सर्वोत्तम ईशान
आकाश आगमो लिङ्गमुच्यते । इत्येतत्तत्त्वं यो विजानाति स नित्यं शुद्ध-
बुद्ध परमानन्दपरम शिवस्वरूपः ।
 
पुरा देवा: पशुपाशाद्विमुक्ताः शिवं पूज्यैव हरिपद्मादयोऽपि ।
ऐन्द्रनीलं पूजितं विष्णुनासील्लिङ्गं वैडूर्य विधिना पद्मरागम् ॥
शक्रेण हैमं यक्षराजेन विश्वेदेवै रौप्यं वसुभिः कांस्यकं च ।
यद्दारुकूटं वायुना पार्थिवं तदश्विभ्यामासीत् स्फाटिकं पाशिनाथ ॥
आदित्यैस्ता मौक्तिकं देवतैस्तैरनन्ताद्यैः फणिभिश्च प्रवालम् ।
दैत्यैर्जालं राक्षसैश्च त्रिलोहं गणैः शैलं सैकतं मातृकाभिः ॥