2026-02-18 05:21:06 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>सिद्धान्तशिखोपनिषत्
</ignore>
<verse>पापपूर्णस्य मर्त्यस्य त्रिपुण्ड्रोद्भूलने शिवे ।
रुद्राक्षधारणे द्वेषः स्वत एव प्रजायते ॥
</verse>
<ignore>३८१
</ignore>
<verse>जन्मान्यनन्तानि विस्तीर्य भूयः शिवप्रसादाद्धृतपुण्यलेश: ।
शिवे भक्तिं प्राप्य तद्भक्तसङ्गान्न संसृतौ घोरदुःखात् प्रमज्जेत् ॥
</verse>
<verse>योऽज्ञानाद्वा शिवशब्दं गृणानः पापैर्घोरैर्मुच्यते वा कदाचित् ।
को वा वेत्ता महिमानं शिवस्य परात् परस्य ज्ञानगुह्यस्य गुह्यम् ॥
</verse>
<verse>सद्योजाताद्ब्राह्मणाः संबभूवुर्वामदेवात् क्षत्रिया वै विशश्च ।
अघोराच्छूद्रास्तत्पुरुषाच्छिवस्य पञ्चात्मकस्य गणा ईशतोऽस्य ॥
</verse>
<verse>आत्माश्रमित्वाद्गुणवंशजाता लिङ्गाङ्गसङ्गस्तत्र जन्मान्तदीक्षा ।
यथा गङ्गा शिवसङ्गात्तथैव न सूतकं वा नाप्यशुचित्वमेषाम् ॥
</verse>
<verse>गच्छंस्तिष्ठन्निमिषन्नुन्मिषन् वा स्वपञ्चाग्राल्लिङ्गधारी शुचिः स्यात् ।
भुञ्जन् मूत्राद्युत्सृजन् वा कदाचिन्न तत्रोच्छिष्टं भजते शुद्धदेही ॥
</verse>
<verse>शीर्षे कण्ठे वक्षसि कक्षदेशे नाभौ हस्ते सर्वदा प्राणलिङ्गम् ।
धार्यं यथासम्प्रदायं पुरस्ताद्गुरोर्विदित्वा हृदये मुख्यमुक्तम् ॥
</verse>
<verse>स्नानं कृत्वा शिवतीर्थे च देहं सर्ववं भस्मोद्धूलनात् पावयित्वा ।
त्रिपुण्ड्रं धार्यं भर्त्सनात् पातकौ घगिरेर्भस्म प्राहुरत्यर्थमेतत् ॥
</verse>
<verse>स्नानं त्रिपुण्ड्रस्य शिरोललाटवक्षः स्कन्धमणिबन्धेषु कूrpe ।
नाभिप्रदेशे पार्श्वयोर्गण्डदेशे गुदप्रदेशे गुल्फयोश्च क्रमात् स्यात् ॥
</verse>
<verse>वह्नित्रयं तच्च जगत्त्रयं यद्गुणत्रयं तच्च शक्तित्रयं स्यात् ।
धृतं त्रिपुण्ड्रं यदि कोपि दैवात् तद्दृष्टाट्वान्यः पातकौघाद्विमुक्तः ॥
</verse>
<verse>निमीलिताक्षस्य पुरत्रयाणि
दग्धाः शंभोर्नयनेभ्योऽथ ये तु ।
जाता रुद्राक्षा जलबिन्दवोऽस्य
सद्योजातादीन् पञ्च वक्त्राणि विन्द्यात् ॥
</verse>
</page>
<ignore>सिद्धान्तशिखोपनिषत्
<verse>पापपूर्णस्य मर्त्यस्य त्रिपुण्ड्रोद्भूलने शिवे ।
रुद्राक्षधारणे द्वेषः स्वत एव प्रजायते ॥
<ignore>३८१
<verse>जन्मान्यनन्तानि विस्तीर्य भूयः शिवप्रसादाद्धृतपुण्यलेश: ।
शिवे भक्तिं प्राप्य तद्भक्तसङ्गान्न संसृतौ घोरदुःखात् प्रमज्जेत् ॥
<verse>योऽज्ञानाद्वा शिवशब्दं गृणानः पापैर्घोरैर्मुच्यते वा कदाचित् ।
को वा वेत्ता महिमानं शिवस्य परात् परस्य ज्ञानगुह्यस्य गुह्यम् ॥
<verse>सद्योजाताद्ब्राह्मणाः संबभूवुर्वामदेवात् क्षत्रिया वै विशश्च ।
अघोराच्छूद्रास्तत्पुरुषाच्छिवस्य पञ्चात्मकस्य गणा ईशतोऽस्य ॥
<verse>आत्माश्रमित्वाद्गुणवंशजाता लिङ्गाङ्गसङ्गस्तत्र जन्मान्तदीक्षा ।
यथा गङ्गा शिवसङ्गात्तथैव न सूतकं वा नाप्यशुचित्वमेषाम् ॥
<verse>गच्छंस्तिष्ठन्निमिषन्नुन्मिषन् वा स्वपञ्चाग्राल्लिङ्गधारी शुचिः स्यात् ।
भुञ्जन् मूत्राद्युत्सृजन् वा कदाचिन्न तत्रोच्छिष्टं भजते शुद्धदेही ॥
<verse>शीर्षे कण्ठे वक्षसि कक्षदेशे नाभौ हस्ते सर्वदा प्राणलिङ्गम् ।
धार्यं यथासम्प्रदायं पुरस्ताद्गुरोर्विदित्वा हृदये मुख्यमुक्तम् ॥
<verse>स्नानं कृत्वा शिवतीर्थे च देहं सर्
त्रिपुण्ड्रं धार्यं भर्त्सनात् पातकौ
<verse>स्नानं त्रिपुण्ड्रस्य शिरोललाटवक्षः
नाभिप्रदेशे पार्श्वयोर्गण्डदेशे गुदप्रदेशे गुल्फयोश्च क्रमात् स्यात् ॥
<verse>वह्नित्रयं तच्च जगत्त्रयं यद्गुणत्रयं तच्च शक्तित्रयं स्यात् ।
धृतं त्रिपुण्ड्रं यदि कोपि दैवात् तद्दृष्