This page has not been fully proofread.

सिद्धान्तशिखोपनिषत्
 
पापपूर्णस्य मर्त्यस्य त्रिपुण्ड्रोद्भूलने शिवे ।
रुद्राक्षधारणे द्वेषः स्वत एव प्रजायते ॥
 
३८१
 
जन्मान्यनन्तानि विस्तीर्य भूयः शिवप्रसादाद्धृतपुण्यलेश: ।
शिवे भक्तिं प्राप्य तद्भक्तसङ्गान्न संसृतौ घोरदुःखात् प्रमज्जेत् ॥
योऽज्ञानाद्वा शिवशब्दं गृणानः पापैर्घोरैर्मुच्यते वा कदाचित् ।
को वा वेत्ता महिमानं शिवस्य परात् परस्य ज्ञानगुह्यस्य गुह्यम् ॥
सद्योजाताद्ब्राह्मणाः संबभूवुर्वामदेवात् क्षत्रिया वै विशश्च ।
अघोराच्छूद्रास्तत्पुरुषाच्छिवस्य पञ्चात्मकस्य गणा ईशतोऽस्य ॥
आत्माश्रमित्वाद्गुणवंशजाता लिङ्गाङ्गसङ्गस्तत्र जन्मान्तदीक्षा ।
यथा गङ्गा शिवसङ्गात्तथैव न सूतकं वा नाप्यशुचित्वमेषाम् ॥
गच्छंस्तिष्ठन्निमिषन्नुन्मिषन् वा स्वपञ्चाग्रालिङ्गधारी शुचिः स्यात् ।
भुञ्जन् मूत्राद्युत्सृजन् वा कदाचिन्न तत्रोच्छिष्टं भजते शुद्धदेही ॥
शीर्षे कण्ठे वक्षसि कक्षदेशे नाभौ हस्ते सर्वदा प्राणलिङ्गम् ।
धार्यं यथासम्प्रदायं पुरस्ताद्गुरोर्विदित्वा हृदये मुख्यमुक्तम् ॥
स्नानं कृत्वा शिवतीर्थे च देहं सर्व भस्मोलनात् पावयित्वा ।
त्रिपुण्ड्रं धार्यं भर्त्सनात् पातकौ गिर्भस्म प्राहुरत्यर्थमेतत् ॥
स्नानं त्रिपुण्ड्रस्य शिरोललाटवक्षः स्कन्धमणिबन्धेषु कू ।
नाभिप्रदेशे पार्श्वयोर्गण्डदेशे गुदप्रदेशे गुल्फयोश्च क्रमात् स्यात् ॥
वह्नित्रयं तच्च जगत्त्रयं यद्गुणत्रयं तच्च शक्तित्रयं स्यात् ।
धृतं त्रिपुण्ड्रं यदि कोपि दैवात् तद्दृष्टान्यः पातकौघाद्विमुक्तः ॥
निमीलिताक्षस्य पुरत्रयाणि
 
दग्धाः शंभोर्नयनेभ्योऽथ ये तु ।
जाता रुद्राक्षा जलबिन्दवोऽस्य
 
सद्योजातादीन् पञ्च वक्त्राणि विन्द्यात् ॥