2026-02-12 08:40:36 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>३८०
</ignore>
<ignore>शैव-उपनिषदः
</ignore>
<p>स्वर्णस्तेयात् पूतो भवति । ब्रह्महत्यायाः पूतो भवति । स सकलभोगभुक्
देहं त्यक्त्वा शिवसायुज्यमेति । इत्युपनिषत् ॥
</p>
<trailer text="SADA_END">इति सदानन्दोपनिषत् समाप्ता
</trailer>
<title text="SIDDHA_START">सिद्धान्तशिखोपनिषत्
</title>
<p>ॐ अथ भारद्वाजः कुमारं पप्रच्छ । कोऽयं भवादृशानां परमशिव-
भक्तानां सिद्धान्तः । कुतः सर्वे न विदन्तीति । तद्गुह्यमुवाच स्कन्दः ।
भारद्वाज शृणु नामकक्वचिद्वदन्ति साम्बं सर्वदेवप्रकृष्टं शिवं वरेण्यं पक्वचित्ता:
शिवस्य प्रसादतो ज्ञानमात्राद्विदन्ति ।
</p>
<verse>विश्वाधिकं शङ्करं ये प्रमूढा हीनं विष्णोर्ब्रह्मणो वा वदन्ति ।
न संसारात् प्रमुच्यन्ते कदाचिच्छतैः कल्पैः कोटिभिर्वाऽथ दोषैः ॥
</verse>
<verse>यथा राज्ञे कुर्वन्नमात्यबुद्धिं
देही विन्देद्वाबाधमस्माद्विनष्टम् ।
सत्यादिरूपं शिवमेवं विद्वादानो
विष्ण्वादिबुद्धध्या हीयतेऽज्ञानसङ्गात् ॥
</verse>
<verse>महानग्निः काष्ठमार्द्रं च शुष्कं कृत्वा दहेदीश्वरोत्कृष्टबुद्धिः ।
दहेत् पापान्याशु विज्ञानदात्री न संसारे मज्जते वा कदाचित् ॥
</verse>
<verse>महादेवे त्रिपुण्ड्रस्य धारणे भस्मकुण्ठने ।
पुण्यलेशविहीनस्य श्रद्धा नैव प्रजायते ॥
</verse>
</page>
<ignore>३८०
<ignore>शैव-उपनिषदः
<p>स्वर्णस्तेयात् पूतो भवति । ब्रह्महत्यायाः पूतो भवति । स सकलभोगभुक्
देहं त्यक्त्वा शिवसायुज्यमेति । इत्युपनिषत् ॥
<trailer text="SADA_END">इति सदानन्दोपनिषत् समाप्ता
<title text="SIDDHA_START">सिद्धान्तशिखोपनिषत्
<p>ॐ अथ भारद्वाजः कुमारं पप्रच्छ । कोऽयं भवादृशानां परमशिव-
भक्तानां सिद्धान्तः । कुतः सर्वे न विदन्तीति । तद्गुह्यमुवाच स्कन्दः ।
भारद्वाज शृणु नाम
शिवस्य प्रसादतो ज्ञानमात्राद्विदन्ति ।
<verse>विश्वाधिकं शङ्करं ये प्रमूढा हीनं विष्णोर्ब्रह्मणो वा वदन्ति ।
न संसारात् प्रमुच्यन्ते कदाचिच्छतैः कल्पैः कोटिभिर्वाऽथ दोषैः ॥
<verse>यथा राज्ञे कुर्वन्नमात्यबुद्धिं
देही विन्देद्
सत्यादिरूपं शिवमेवं वि
विष्ण्वादिबुद्