This page has been fully proofread once and needs a second look.

<page>
<ignore>
३८०
 
</ignore>
<ignore>
शैव-उपनिषदः
 
</ignore>
<p>
स्वर्णस्तेयात् पूतो भवति । ब्रह्महत्यायाः पूतो भवति । स सकलभोगभुक्

देहं त्यक्त्वा शिवसायुज्यमेति । इत्युपनिषत् ॥
 
</p>
<trailer text="SADA_END">
इति सदानन्दोपनिषत् समाप्ता
 
</trailer>
<title text="SIDDHA_START">
सिद्धान्तशिखोपनिषत्
 
</title>
<p>
ॐ अथ भारद्वाजः कुमारं पप्रच्छ । कोऽयं भवादृशानां परमशिव-

भक्तानां सिद्धान्तः । कुतः सर्वे न विदन्तीति । तद्गुह्यमुवाच स्कन्दः ।

भारद्वाज शृणु नाम क्वचिद्वदन्ति साम्बं सर्वदेवप्रकृष्टं शिवं वरेण्यं पक्वचित्ता:

शिवस्य प्रसादतो ज्ञानमात्राद्विदन्ति ।
 
</p>
<verse>
विश्वाधिकं शङ्करं ये प्रमूढा हीनं विष्णोर्ब्रह्मणो वा वदन्ति ।

न संसारात् प्रमुच्यन्ते कदाचिच्छतैः कल्पैः कोटिभिर्वाऽथ दोषैः ॥
</verse>
<verse>
यथा राज्ञे कुर्वन्नमात्यबुद्धिं
 

देही विन्देद्वाबाधमस्माद्विनष्टम् ।
 

सत्यादिरूपं शिवमेवं विद्वादानो
 

विष्ण्वादिबुद्ध्या हीयतेऽज्ञानसङ्गात् ॥
 
</verse>
<verse>
महानग्निः काष्ठमार्द्रं च शुष्कं कृत्वा दहेदीश्वरोत्कृष्टबुद्धिः ।

दहेत् पापान्याशु विज्ञानदात्री न संसारे मज्जते वा कदाचित् ॥
</verse>
<verse>
महादेवे त्रिपुण्ड्रस्य धारणे भस्मकुण्ठने ।
 

पुण्यलेशविहीनस्य श्रद्धा नैव प्रजायते ॥
 
</verse>
</page>