2026-02-10 02:57:13 by ambuda-bot
This page has not been fully proofread.
३८०
शैव-उपनिषदः
स्वर्णस्तेयात् पूतो भवति । ब्रह्महत्यायाः पूतो भवति । स सकलभोगभुक्
देहं त्यक्त्वा शिवसायुज्यमेति । इत्युपनिषत् ॥
इति सदानन्दोपनिषत् समाप्ता
सिद्धान्तशिखोपनिषत्
ॐ अथ भारद्वाजः कुमारं पप्रच्छ । कोऽयं भवादृशानां परमशिव-
भक्तानां सिद्धान्तः । कुतः सर्वे न विदन्तीति । तद्गुह्यमुवाच स्कन्दः ।
भारद्वाज शृणु नाम कचिद्वदन्ति साम्बं सर्वदेवप्रकृष्टं शिवं वरेण्यं पक्वचित्ता:
शिवस्य प्रसादतो ज्ञानमात्राद्विदन्ति ।
विश्वाधिकं शङ्करं ये प्रमूढा हीनं विष्णोर्ब्रह्मणो वा वदन्ति ।
न संसारात् प्रमुच्यन्ते कदाचिच्छतैः कल्पैः कोटिभिर्वाऽथ दोषैः ॥
यथा राज्ञे कुर्वन्नमात्यबुद्धिं
देही विन्देद्वाधमस्माद्विनष्टम् ।
सत्यादिरूपं शिवमेवं विद्वानो
विष्ण्वादिबुद्धया हीयतेऽज्ञानसङ्गात् ॥
महानग्निः काष्ठमा च शुष्कं कृत्वा दहेदीश्वरोत्कृष्टबुद्धिः ।
दहेत् पापान्याशु विज्ञानदात्री न संसारे मज्जते वा कदाचित् ॥
महादेवे त्रिपुण्ड्रस्य धारणे भस्मकुण्ठने ।
पुण्यलेशविहीनस्य श्रद्धा नैव प्रजायते ॥