2026-02-10 02:57:13 by ambuda-bot
This page has not been fully proofread.
सदानन्दोपनिषत्
अन्तर्धारणशक्तेन ह्यशक्तेन द्विजोत्तमाः ।
संस्कृत्य गुरुणा दत्तं शैवं लिङ्गमुरःस्थले ।
धार्य विप्रेण मुक्त्यर्थे शिवतत्त्वविदो विदुः ॥
येनाचिरात्सर्वपापं व्यपोह्य परात्परं पुरुषमुपैति विद्वान् ।
३७९
अस्य मात्रा अकारो ब्रह्मरूप उकारो विष्णुरूपो मकारः कालकाल:
अर्धमात्रा परमशिवः ओङ्कारो लिङ्गम् ।
योऽसौ सर्वेषु वेदेषु पठ्यते ह्यज ईश्वरः ।
तस्मात्तद्धारणादेतल्लिङ्गदेहमलौकिकम् ।
मृतेऽपि तन्न दह्येत बिले चैतद्विनिक्षिपेत् ॥
न कर्मणा न प्रजया धनेन त्यागेनैकेऽमृतत्वमानशुः ॥
यो वा स्वहस्तार्चितलिङ्गमेकं परात्परं धारयते नरो वा ।
तस्यैव लभ्यः परमेश्वरोऽसौ निरञ्जनं साम्यमुपैति दिव्यम् ॥
शिवलिङ्गधरं विप्रं विपन्नं तु न दाहयेत् ।
यदि वा दाहयेत्तस्य ब्रह्महत्या तदा भवेत् ॥
यदिदं लिङ्गं सकळं सकळनिप्कळं निष्कलं च स्थूलं सूक्ष्मं च
तत्परं स्थूले स्थूल सूक्ष्मे सूक्ष्मं कारणं तत्परं च ।
आत्मानमरणिं कृत्वा प्रणवं चोत्तरारणिम् ।
ध्याननिर्मथनादेव पाशं दहति मानवः ।
अन्तर्बहिश्च तल्लिङ्गं विधत्ते यस्तु शाश्वतम् ॥
अविद्याssवरणं भित्त्वा ब्रह्मणः सायुज्यं सलोकतामाप्नोति । तदिदं
लिङ्गं ब्रह्म । तदिदं ॐ सत्यम् । यो विद्वान् ब्रह्मचारी गृही वानप्रस्थो यतिर्वा
1
सदानन्दोपनिषदं पठति सोऽमिपूतो भवति । स सत्यपूतो भवति ।