2026-02-10 02:57:12 by ambuda-bot
This page has not been fully proofread.
३.७८
शैव-उपनिषदः
शिवोपनिषदं ह्येतदध्यायैः सप्तभिः स्मृतम् ।
ऋप्यात्रेयसगोत्रेण मुनिना हितकाम्यया ॥ १४० ॥
इति शिवोपनिषदि शिवाचाराध्यायः सप्तमः
इति शिवोपनिषत् समाप्ता
सदानन्दोपनिषत्
तच्छंयोरावृणीमहे — इति शान्तिः
अथैनं सदानन्दः संवर्ती जैगीषव्यश्च नीललोहितं रुद्रमुवाच ।
भगवन् किमपवर्ग साधयतीति । स एतेभ्यो भगवान् नीललोहितः प्रोवाच ।
अन्तर्बहिर्धारितं परंब्रह्माभिधेयं शाम्भवं लिङ्गम्
आधारे दहरेऽव्यक्ते स्वर्णस्फाटिक वैद्रुमम् ।
निरन्तरानुसन्धानात् तदन्तर्धारणे विदुः ॥
चतुर्दलं द्वादशारं द्वयश्रमव्यक्तकं शिवम् ।
दहरेऽङ्गुष्ठमात्रं तमुमाकान्तमहर्निशम् ।
अनिराकारमात्मानं धृत्वा यान्ति परं पदम् ॥
परात् परतरो ब्रह्मा तत्परात् परतो हरिः ।
तत्परात् परतोऽधीशस्तस्मात् स्यादुत्तरः शिवः ॥
जातवेदसमव्यक्तं व्यक्ताव्यक्तं परं सदा ।
तमात्मस्थं येऽनुपश्यन्ति धीराः
तेषां शान्तिः शाश्वती नेतरेषाम् ॥