2026-02-19 03:14:27 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>शिवसङ्कल्पोपनिषत्
</ignore>
<verse>यः प्राणतो निमिषतो
महित्वैक इद्राजा जगतो बभूव ।
य ईशे अस्य द्विपदश्चतुष्पदः कस्मै देवाय
हविषा विधेम तन्मे मनः शिवसङ्कल्पमस्तु ॥ ३३ ॥
</verse>
<verse>य आत्मदा बलदा यस्य विश्वे
उपासते प्रशिषं यस्य देवाः ।
यस्य छायाऽमृतं यस्य मृत्युः कस्मै देवाय
हविषा विधेम तन्मे मनः शिवसङ्कल्पमस्तु ॥ ३४ ॥
</verse>
<verse>यो रुद्रो अग्नौ यो अप्सु य ओषधीषु
यो रुद्रो विश्वा भुवनाऽऽविवेश ।
तस्मै रुद्राय नमो अस्तु
तन्मे मनः शिवसङ्कल्पमस्तु ॥ ३५ ॥
</verse>
<verse>गन्धद्वारां दुराधर्षा
षां
नित्यपुष्टां करीषिणीम् ।
ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियं
तन्मे मनः शिवसङ्कल्पमस्तु ॥ ३६ ॥
</verse>
<verse>य इदं शिवसङ्कल्पं सदा ध्यायन्ति ब्राह्मणाः ।
३२३
ते परं मोक्षं गमिष्यन्ति तन्मे मनः शिवसङ्कल्पमस्तु ॥ ३७ ॥
</verse>
<trailer>इति शिवसङ्कल्पोपनिषत् समाप्ता
</trailer>
<trailer><add>[ इति शिवसङ्कल्पमन्त्राः समाप्ताः ]
</add></trailer>
</page>
<ignore>शिवसङ्कल्पोपनिषत्
<verse>यः प्राणतो निमिषतो
महित्वैक इद्राजा जगतो बभूव ।
य ईशे अस्य द्विपदश्चतुष्पदः कस्मै देवाय
हविषा विधेम तन्मे मनः शिवसङ्कल्पमस्तु ॥ ३३ ॥
<verse>य आत्मदा बलदा यस्य विश्वे
उपासते प्रशिषं यस्य देवाः ।
यस्य छायाऽमृतं यस्य मृत्युः कस्मै देवाय
हविषा विधेम तन्मे मनः शिवसङ्कल्पमस्तु ॥ ३४ ॥
<verse>यो रुद्रो अग्नौ यो अप्सु य ओषधीषु
यो रुद्रो विश्वा भुवनाऽऽविवेश ।
तस्मै रुद्राय नमो अस्तु
तन्मे मनः शिवसङ्कल्पमस्तु ॥ ३५ ॥
<verse>गन्धद्वारां दुराधर्