2026-02-10 02:57:03 by ambuda-bot
This page has not been fully proofread.
शिवसङ्कल्पोपनिषत्
यः प्राणतो निमिषतो
महित्वैक इद्राजा जगतो बभूव ।
य ईशे अस्य द्विपदश्चतुष्पदः कस्मै देवाय
हविषा विधेम तन्मे मनः शिवसङ्कल्पमस्तु ॥ ३३ ॥
य आत्मदा बलदा यस्य विश्वे
उपासते प्रशिषं यस्य देवाः ।
यस्य छायाऽमृतं यस्य मृत्युः कस्मै देवाय
हविषा विधेम तन्मे मनः शिवसङ्कल्पमस्तु ॥ ३४ ॥
यो रुद्रो अग्नौ यो अप्सु य ओषधीषु
यो रुद्रो विश्वा भुवनाऽऽविवेश ।
तस्मै रुद्राय नमो अस्तु
तन्मे मनः शिवसङ्कल्पमस्तु ॥ ३५ ॥
गन्धद्वारां दुराधर्षा
नित्यपुष्टां करीषिणीम् ।
ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियं
तन्मे मनः शिवसङ्कल्पमस्तु ॥ ३६ ॥
य इदं शिवसङ्कल्पं सदा ध्यायन्ति ब्राह्मणाः ।
३२३
ते परं मोक्षं गमिष्यन्ति तन्मे मनः शिवसङ्कल्पमस्तु ॥ ३७ ॥
इति शिवसङ्कल्पोपनिषत् समाप्ता
[ इति शिवसङ्कल्पमन्त्राः समाप्ताः ]
यः प्राणतो निमिषतो
महित्वैक इद्राजा जगतो बभूव ।
य ईशे अस्य द्विपदश्चतुष्पदः कस्मै देवाय
हविषा विधेम तन्मे मनः शिवसङ्कल्पमस्तु ॥ ३३ ॥
य आत्मदा बलदा यस्य विश्वे
उपासते प्रशिषं यस्य देवाः ।
यस्य छायाऽमृतं यस्य मृत्युः कस्मै देवाय
हविषा विधेम तन्मे मनः शिवसङ्कल्पमस्तु ॥ ३४ ॥
यो रुद्रो अग्नौ यो अप्सु य ओषधीषु
यो रुद्रो विश्वा भुवनाऽऽविवेश ।
तस्मै रुद्राय नमो अस्तु
तन्मे मनः शिवसङ्कल्पमस्तु ॥ ३५ ॥
गन्धद्वारां दुराधर्षा
नित्यपुष्टां करीषिणीम् ।
ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियं
तन्मे मनः शिवसङ्कल्पमस्तु ॥ ३६ ॥
य इदं शिवसङ्कल्पं सदा ध्यायन्ति ब्राह्मणाः ।
३२३
ते परं मोक्षं गमिष्यन्ति तन्मे मनः शिवसङ्कल्पमस्तु ॥ ३७ ॥
इति शिवसङ्कल्पोपनिषत् समाप्ता
[ इति शिवसङ्कल्पमन्त्राः समाप्ताः ]