This page has not been fully proofread.

३२२
 
शैव-उपनिषदः
 
चतुरो वेदानधीयीत सर्वशास्त्रमयं विदुः ।
इतिहासपुराणानां तन्मे मनः शिवसङ्कल्पमस्तु ॥ २७ ॥
मा नो महान्तमुत मा नो अर्भकं
 
मान उक्षन्तमुत मा न उक्षितम् ।
 
मा नो वधीः पितरं मोत मातरं प्रिया मा नः
 
तनुवो रुद्र रीरिषस्तन्मे मनः शिवसङ्कल्पमस्तु ॥ २८ ॥
मा नस्तोके तनयं मा न आयुषि
 
मा नो गोषु मा नो अश्वेषु रीरिषः ।
 
वीरान्मा नो रुद्र भामितो वधीर्हविप्मन्तः
 
नमसा विधेम ते तन्मे मनः शिवसङ्कल्पमस्तु ॥ २९ ॥
 
ऋतं सत्यं परं ब्रह्म
 
पुरुषं कृष्णपिङ्गळम् ।
 
ऊर्ध्वरेतं विरूपाक्षं विश्वरूपाय वै नमो नमः
 
तन्मे मनः शिवसङ्कल्पमस्तु ॥ ३० ॥
 
कद्रुद्राय प्रचेतसे मीढुष्टमाय तव्यसे ।
वोचेम शन्तमं हृदे ।
 
सर्वो ह्येष रुद्रस्तस्मै रुद्राय नमो अस्तु
 
तन्मे मनः शिवसङ्कल्पमस्तु ॥ ३१ ॥
 
ब्रह्म जज्ञानं प्रथमं पुरस्तात्
 
वि सीमतः सुरुचो वेन आवः ।
 
स बुनिया उपमा अस्य विष्ठाः सतश्च योनिं
 
असतश्च विवस्तन्मे मनः शिवसङ्कल्पमस्तु ॥ ३२ ॥