This page has been fully proofread once and needs a second look.

<page>
<ignore>
U 41
 
</ignore>
<ignore>
शिवसङ्कल्पोपनिषत्
 
</ignore>
<verse>
परात् परतरो ब्रह्मा तत्परात् परतो हरिः ।
 

तत्परात् परतोऽधीशस्तन्मे मनः शिवसङ्कल्पमस्तु ॥ १८ ॥
</verse>
<verse>
या वेदादिषु गायत्री सर्वव्यापी महेश्वरी ।
 

ऋग्यजुस्सामाथर्वैश्च तन्मे मनः शिवसङ्कल्पमस्तु ॥ १९ ॥
</verse>
<verse>
यो वै देवं महादेवं प्रणवं पुरुषोत्तमम् ।
 

यः सर्वे सर्ववेदैश्च तन्मे मनः शिवसङ्कल्पमस्तु ॥ २० ॥
</verse>
<verse>
प्रयतः प्रणवोङ्कारं प्रणवं पुरुषोत्तमम् ।
 

ओङ्कारं प्रणवात्मानं तन्मे मनः शिवसङ्कल्पमस्तु ॥ २१ ॥
</verse>
<verse>
योऽसौ सर्वेषु वेदेषु पठ्यते ह्यज ईश्वरः ।
 
३२१
 

अकायो निर्गुणो ह्यात्मा तन्मे मनः शिवसङ्कल्पमस्तु ॥ २२ ॥
</verse>
<verse>
गोभिर्जुष्टं धनेन ह्यायुषा च बलेन च ।
 

प्रजया पशुभिः पुष्कराक्षं तन्मे मनः शिवसङ्कल्पमस्तु ॥२३॥
</verse>
<verse>
त्रियम्बकं यजामहे
 

सुगन्धिं पुष्टिवर्धनम् ।
 

उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय
 

मामृतात्तन्मे मनः शिवसङ्कल्पमस्तु ॥ २४ ॥
 
</verse>
<verse>
कैलासशिखरे रम्ये शङ्करस्य शिवालये ।
 

देवतास्तत्र मोदन्ते तन्मे मनः शिवसङ्कल्पमस्तु ॥ २५ ॥
 
</verse>
<verse>
विश्वतश्चक्षुरुत विश्वतोमुखो
 

विश्वतोहस्त उत विश्वतस्पात् ।
 

संबाहुभ्यां नमति संपतत्रैर्द्यावापृथिवी
 

जनयन् देव एकस्तन्मे मनः शिवसङ्कल्पमस्तु ॥ २६ ॥
 
</verse>
</page>