This page has been fully proofread once and needs a second look.

<page>
<ignore>
३१८
 
</ignore>
<ignore>
शैव-उपनिषदः
 
</ignore>
<p>
भवन्ति । एतद्धि परमं तपः । आपो ज्योती रसोऽमृतं ब्रह्म भूर्भुवः स्वरों

नम इति ।
 
</p>
<p>
य इमां वटुकोपनिषदं ब्राह्मणोऽधीतेऽश्रोत्रियः श्रोत्रियो भवति ।

अनुपनीत उपनीतो भवति । स हाग्निपूतो भवति । स वायुपूतो भवति ।

स सूर्यपूतो भवति । स सोमपूतो भवति । स सत्यपूतो भवति । स सर्वपूतो

भवति । स सर्वैर्देवैरनुज्ञातो भवति । स सर्वैर्वेदैरनुध्यातो भवति । स

सर्वेषु तीर्थेषु स्नातो भवति । स सर्वविद्भवति । स सर्वायुरारोग्यवान् भवति ।

स कालज्ञानी भवति । स गुर्वनुग्रहभागी भवति । इत्येवं भगवद्टुकेश्वरं

यः स्तौति स वेद्यं वेदेति ॥
 
</p>
<trailer text="END">
इत्याथर्वणरहस्ये वटुकोपनिषत् समाप्ता
 
</trailer>
<title text="START">
शिवसङ्कल्पोपनिषत्
 
</title>
<verse n="1">
यज्जाग्रतो दूरमुदैति दैवं तदु सुप्तस्य तथैवैति ।

दूरङ्गमं ज्योतिषां ज्योतिरेकं तन्मे मनः शिवसङ्कल्पमस्तु ॥ १ ॥
</verse>
<verse>
येन कर्माण्यपसो मनीषिणो यज्ञे कृण्वन्ति विदथेषु धीराः ।

यदपूर्वं यक्षमन्तः प्रजानां तन्मे मनः शिवसङ्कल्पमस्तु ॥ २ ॥
</verse>
<verse>
यत्प्रज्ञानमुत चेतो धृतिश्च यज्ज्योतिरन्तरमृतं प्रजासु ।

यस्मान्न ऋते किञ्चन कर्म क्रियते तन्मे मनः शिवसङ्कल्पमस्तु ॥
</verse>
<verse>
येनेदं भूतं भुवनं भविष्यत् परिगृहीतममृतेन सर्वम् ।
 

येन यज्ञस्तायते सप्तहोता तन्मे मनः शिवसङ्कल्पमस्तु ॥ ४ ॥
 
</verse>
</page>