2026-02-10 02:57:02 by ambuda-bot
This page has not been fully proofread.
३१८
शैव-उपनिषदः
भवन्ति । एतद्धि परमं तपः । आपो ज्योती रसोऽमृतं ब्रह्म भूर्भुवः स्वरों
नम इति ।
य इमां वटुकोपनिषदं ब्राह्मणोऽधीतेऽश्रोत्रियः श्रोत्रियो भवति ।
अनुपनीत उपनीतो भवति । स हानिपूतो भवति । स वायुपूतो भवति ।
स सूर्यपूतो भवति । स सोमपूतो भवति । स सत्यपूतो भवति । स सर्वपूतो
भवति । स सर्वैर्देवैरनुज्ञातो भवति । स सर्वैर्वेदैरनुध्यातो भवति । स
सर्वेषु तीर्थेषु स्नातो भवति । स सर्वविद्भवति । स सर्वायुरारोग्यवान् भवति ।
स कालज्ञानी भवति । स गुर्वनुग्रहभागी भवति । इत्येवं भगवद्बटुकेश्वरं
यः स्तौति स वेद्यं वेदेति ॥
इत्याथर्वणरहस्ये वटुकोपनिषत् समाप्ता
शिवसङ्कल्पोपनिषत्
यज्जाग्रतो दूरमुदैति दैवं तदु सुप्तस्य तथैवैति ।
दूरङ्गमं ज्योतिषां ज्योतिरेकं तन्मे मनः शिवसङ्कल्पमस्तु ॥ १ ॥
येन कर्माण्यपसो मनीषिणो यज्ञे कृण्वन्ति विदथेषु धीराः ।
यदपूर्वं यक्षमन्तः प्रजानां तन्मे मनः शिवसङ्कल्पमस्तु ॥ २ ॥
यत्प्रज्ञानमुत चेतो धृतिश्च यज्ज्योतिरन्तरमृतं प्रजासु ।
यस्मान्न ऋते किञ्चन कर्म क्रियते तन्मे मनः शिवसङ्कल्पमस्तु ॥
येनेदं भूतं भुवनं भविष्यत् परिगृहीतममृतेन सर्वम् ।
येन यज्ञस्तायते सप्तहोता तन्मे मनः शिवसङ्कल्पमस्तु ॥ ४ ॥