This page has been fully proofread once and needs a second look.

<page>
<ignore>
वटुकोपनिषत्
 
</ignore>
<verse>
एको वटुको न द्वितीयाय तस्मै
 

य इमान् लोकानीशत ईशनीभिः ।

प्रत्यङ्जनास्तिष्ठति सञ्चुको चान्तकाले
 

संसृज्य विश्वा भुवनानि गोप्ता ॥
</verse>
<verse>
यस्मिन् क्रोधं यां च तृष्णां क्षमां च
 
३१७
 

ह्यक्षमां हित्वा हेतुजालस्य मूलम् ।
 

बुद्ध्या सञ्चितं स्थापयित्वा तु रुद्रे
 

शाश्वतं वै रुद्रमेकत्वमाहुः ॥
 
</verse>
<verse>व
टुको हि शाश्वतेन पुराणेन
 

वेषमूर्जेण तपसा नियन्ता ॥
 
</verse>
<p>
अग्निरिति भस्म वायुरिति भस्म जलमिति भस्म स्थलमिति भस्म

व्योमेति भस्म सर्वं ह वेदं भस्म मन एतानि चक्षूंषि यस्माद्व्रतमिदं पाशु-

पतं यद्भस्मनाङ्गानि संस्पृशेत्तस्माद्ब्रह्म तदेतद्वटुकं पशुपाशविमोक्षणाय ।
 
</p>
<verse>
यस्मिन्निदं सर्वमोतप्रोतं
 

तस्मादन्यन्न परं किञ्चनास्ति ।
 

न तस्मात् पूर्वं न परं तदस्ति
 

न भूतं नोत भव्यं यदासीत् ॥
 
</verse>
<verse>
अक्षराज्जायते काल :लः कालाद्व्यापक उच्यते ।
 
</verse>
<p merge-next="true">
व्यापको हि भगवान् टुको भोगायमानो यदा शेते रुद्रस्तदा संहरते

प्रजाः । उच्छाछ्वासिते तमो भवति तमस आपोऽप्स्वङ्गुल्या मथिते मथितं

शिशिरे शिशिरं मथ्यमानं फेनं भवति फेनादण्डं भवत्यण्डाद्ब्रह्मा भवति

ब्रह्मणो वायुर्वायोरोङ्कार ओङ्कारात्सावित्री सावित्र्या गायत्री गायत्र्या लोकाः
 

 
</p>
</page>