2026-02-10 02:57:02 by ambuda-bot
This page has not been fully proofread.
वटुकोपनिषत्
एको वटुको न द्वितीयाय तस्मै
य इमान् लोकानीशत ईशनीभिः ।
प्रत्यङ्जनास्तिष्ठति सञ्चको चान्तकाले
संसृज्य विश्वा भुवनानि गोप्ता ॥
यस्मिन् क्रोधं यां च तृष्णां क्षमां च
३१७
ह्यक्षमां हित्वा हेतुजालस्य मूलम् ।
बुद्ध्या सञ्चितं स्थापयित्वा तु रुद्रे
शाश्वतं वै रुद्रमेकत्वमाहुः ॥
टुको हि शाश्वतेन पुराणेन
वेषमूर्जेण तपसा नियन्ता ॥
अग्निरिति भस्म वायुरिति भस्म जलमिति भस्म स्थलमिति भस्म
व्योमेति भस्म सर्व ह वेदं भस्म मन एतानि चक्षूंषि यस्माद्व्रतमिदं पाशु-
पतं यद्भस्मनाङ्गानि संस्पृशेत्तस्माद्ब्रह्म तदेतद्वटुकं पशुपाशविमोक्षणाय ।
यस्मिन्निदं सर्वमोतप्रोतं
तस्मादन्यन्न परं किञ्चनास्ति ।
न तस्मात् पूर्वं न परं तदस्ति
न भूतं नोत भव्यं यदासीत् ॥
अक्षराज्जायते काल : कालाद्वयापक उच्यते ।
व्यापको हि भगवान् बटुको भोगायमानो यदा शेते रुद्रस्तदा संहरते
प्रजाः । उच्छासिते तमो भवति तमस आपोऽप्स्वङ्गुल्या मथिते मथितं
शिशिरे शिशिरं मथ्यमानं फेनं भवति फेनादण्डं भवत्यण्डाद्ब्रह्मा भवति
ब्रह्मणो वायुर्वायोरोङ्कार ओङ्कारात्सावित्री सावित्र्या गायत्री गायत्र्या लोकाः
व