2026-02-10 02:57:01 by ambuda-bot
This page has not been fully proofread.
३१६
शैव-उपनिषदः
जरामरणसंसारमहाभयात्तारयति त्रायते च तस्मादुच्यते तारम् । अथ
कस्मादुच्यते सूक्ष्मं यस्मादुच्चार्यमाण एव सूक्ष्मो भूत्वा शरीराण्यधितिष्ठति
सर्वाणि चाङ्गान्यभिमृशति तस्मादुच्यते सूक्ष्मम् । अथ कस्मादुच्यते शुक्लं
यस्मादुच्चार्यमाण एवं क्लन्दते क्लामयति च तस्मादुच्यते शुक्ल । अथ
कस्मादुच्यते वैद्युतं यस्मादुच्चार्यमाण एवाव्यक्ते महति तमसि द्योतयति
तस्मादुच्यते वैद्युतम् । अथ कस्मादुच्यते परं ब्रह्म यस्मात् परमपरं परायणं
च बृहहत्या बृंहयति तस्मादुच्यते परं ब्रह्म । अथ कस्मादुच्यत एको यः
सर्वान् प्राणान् संभक्ष्य भक्षणेनाजः संसृजति विसृजति तीर्थमेके व्रजन्ति
तीर्थमेके दक्षिणाः प्रत्यञ्च उदञ्चः प्राञ्चोऽभिव्रजन्त्येक तेषां सर्वेषामिह
सद्गतिः । साकं स एको भूतश्चरति प्रजानां तस्मादुच्यत एकः । अथ
कस्मादुच्यते रुद्रो यस्मादृषिभिर्नान्यैर्भक्तैद्भुतमस्य रूपमुपलभ्यते तस्मादुच्यते
रुद्रः । अथ कस्मादुच्यत ईशानो यः सर्वान् देवानीशत ईशानीभिर्जननी-
भिश्च परमशक्तिभिः । अभि त्वा शूर नोनुमोदुग्धा इव धेनवः । ईशानमस्य
जगतः सुवर्हशमीशानमिन्द्र तस्थुषः । तस्मादुच्यत ईशानः । अथ कस्मा-
दुच्यते भगवान् महेश्वरो यस्माद्भक्ता ज्ञानेन भजन्त्यनुगृह्णाति च वाचं
संसृजति विसृजति च सर्वान् भावान् परित्यज्यात्मज्ञानेन योगैश्वर्येण महति
महीयते तस्मादुच्यते भगवान् महेश्वरः । अथ कस्मादुच्यते भगवान् वटुकेश्वरो
यस्मादन्तर्जलौषधिवीरुधानाविश्येमं विश्वं भुवनानि वा अवते तस्मादुच्यते
भगवान् वटुकेश्वरः । तदेतद्भुद्रचरितम् ।
एको ह देवः प्रदिशो नु सर्वाः
पूर्वो ह जातः स उ गर्भे अन्तः ।
स एव जातः स जनिष्यमाणः
प्रत्यङ्जनास्तिष्ठति सर्वतोमुखः ॥