This page has been fully proofread once and needs a second look.

<page>
<ignore>
वटुकोपनिषत्
 
</ignore>
<ignore>
३१५
 
</ignore>
<p>
भूस्ते आदिर्मध्यं भुवः स्वस्ते शीर्षं विश्वरूपोऽसि ब्रह्मैकत्वं द्विधा

त्रिधा बुद्धिस्त्वं शान्तिस्त्वं पुष्टिस्त्वं हुतमहुतं दत्तमदत्तं सर्वमसर्वं विश्वमविश्वं

कृतमकृतं परमपरं परायणं च त्वम् । अपाम सोमममृता अभूमागन्म ज्यो-

तिरविदाम देवान् । किं नूनमस्मान्कृणवदरातिः किमु धूर्तिरमृतं मर्त्यस्य ।

सोमसूर्यपुरस्तात् सूक्ष्मः पुरुषः । सर्वेवं जगद्धितं वा एतदक्षरं प्राजापत्यं सूक्ष्मं

सौम्यं पुरुषं ग्राह्यमग्राह्येण भावं भावेन सौम्यं सौम्येन सूक्ष्मं सूक्ष्मेण वायव्यं

वायव्येन प्रसति स्वेन तेजसा तस्मादुपसंहर्त्रे महाग्रासाय वै नमो नमः ।
</p>
<verse>
हृदिस्था देवताः सर्वा हृदि प्राणाः प्रतिष्ठिताः ।
 

हृदि त्वमसि यो नित्यं तिस्रो मात्रा:राः परस्तु सः ॥
 
</verse>
<p>
तस्योत्तरतः शिरो दक्षिणतः पादौ य उत्तरतः स ओङ्कारो य

ओङ्कारः स प्रणवो यः प्रणवः स सर्वव्यापी यः सर्वव्यापी सोऽनन्तो

योऽनन्तस्तत्तारं यत्तारं तत्सूक्ष्मं यत्सूक्ष्मं तच्छुक्कंलं यच्छुक्कंलं तद्वैद्युतं यद्वैद्युतं

तत्परं ब्रह्म यत्परं ब्रह्म स एको य एकः स रुद्रो यो रुद्रः स ईशानो य

ईशानः स भगवान् महेश्वरो यो भगवान् महेश्वरः स भगवान् वटुकेश्वरो

यो भगवान् वटुकेश्वरः ।
 
</p>
<p merge-next="true">
अथ कस्मादुच्यत ओङ्कारो यस्मादुच्चार्यमाण एव प्राणानूर्ध्वमुत्क्राम-

यति तस्मादुच्यत ओङ्कारः । अथ कस्मादुच्यते प्रणवो यस्मादुच्चार्यमाण

एव ऋग्यजुस्सामाथर्वाङ्गिरसं ब्रह्म ब्राह्मणेभ्यः प्रणामयति नामयति च

तस्मादुच्यते प्रणवः । अथ कस्मादुच्यते सर्वव्यापी यस्मादुच्चार्यमाण एव

सर्वान् लोकान् व्याप्नोति स्नेहो यथा पललपिण्डमिव शान्तरूपमोतप्रोतमनु-

प्राप्तो व्यतिषक्तश्च तस्मादुच्यते सर्वव्यापी । अथ कस्मादुच्यते ऽनन्तो

यस्मादुच्चार्यमाण एव तिर्यगूर्ध्वमधस्ताच्चास्यान्तो नोपलभ्यते तस्मादुच्य-

तेऽनन्तः । अथ कस्मादुच्यते तारं यस्मादुच्चार्यमाण एव गर्भजन्मव्याधि -
 
</p>
</page>