This page has not been fully proofread.

वटुकोपनिषत्
 
एता एव महाविद्या विभूतेरभिधारणे ।
कथिताः परमेशानि सतां पूर्वतराघहाः ॥
वज्रपञ्जरनाम्नैव यः कुर्याद्भस्मधारणम् ।
स सर्वभयनिर्मुक्तः साक्षाच्छिवमयो भवेत् ।
 
३१३
 
एतानि तानि श्रीमन्त्रपवित्रे यानि भस्मनि ॥
दग्धकामाङ्ग विभूतित्रैपुण्ड्रितानि कथितानि ललाटपट्टे लोपयन्ति
 
दैवलिखितानि दुरक्षराणि ।
 
इति वज्रपञ्जरोपनिषत् समाप्ता
 
वटुकोपनिषत्
 
अथ वटुकोपनिषदं व्याख्यास्यामः ।
 
वालाग्रमात्रं हृदयस्य मध्ये विश्वं देवं जातरूपं वरेण्यम् ।
तनात्मस्थं येऽनुपश्यन्ति धीरास्तेषां शान्तिर्भविता नेतरेषाम्
यो वै वटुकः स भगवान् यश्च ब्रह्मा तस्मै वै नमो नमः ।
यो वै वटुकः स भगवान् यश्च विष्णुस्तस्मै वै नमो नमः ॥
यो वै वटुकः स भगवान् यश्च रुद्रस्तस्मै वै नमो नमः ।
यो वै वटुकः स भगवान् यश्चेन्द्रस्तस्मै वै नमो नमः ॥
यो वै वटुकः स भगवान् यश्चाग्निस्तस्मै वै नमो नमः ।
यो वै वटुकः स भगवान् यश्च वायुस्तस्मै वै नमो नमः ॥
यो वै वटुकः स भगवान् यश्च सूर्यस्तस्मै वै नमो नमः ।
यो वै वटुकः स भगवान् यश्च सोमस्तस्मै वै नमो नमः ॥
 
U 40