This page has not been fully proofread.

३१२
 
शैव-उपनिषदः
 
जातवेदसि ज्वलन्ति ज्वलन्ति प्रज्वल प्रज्वल ह्रां ह्रीं हूं र र र र ज्वाला-
 
हूं
मालिनि हुं फट् स्वाहा इति हृदये । जलवासिन्यै नमो नाभौ । ह्रीं
वह्निवासिन्यै नमो गुह्ये । ओं सह . . . .
1
नाभ्यादिजान्वन्तम् । ओं ह्रीं श्रीं
पशु हुं फट् स्वाहा जान्वादिपादपर्यन्तम् । ओं ह्रीं स्फुर स्फुर प्रस्फुर
 
प्रस्फुर
 

 
रूप तट तट चट चट प्रचट प्रचट कह कह वम वम
बन्धय बन्धय घातय घातय हुं फट् स्वाहा इत्यघोरेण शिरसि । ओं वैष्णव्यै
नमो हृदयं । पुनः अघोरेण पृष्ठे । पुनः सुदर्शनेन जान्वादिनाभ्यन्तम् ।
पुनः पाशुपतेन पादादिजान्वन्तम् । ह्सौः अ अं क्षं स्हौः
क्लीं क्षौं श्रीं ।
 
उग्रं वीरं महाविष्णुं ज्वलन्तं सर्वतोमुखम् ।
 
नृसिंहं भीषणं भद्रं मृत्युमृत्युं नमाम्यहम् ॥
 
ओं ह्रीं
 
श्रीं श्रीं श्रीं ह्रीं ओं इति दक्षिणबाहौ । ओं क्षां ओं नमो भगवते
नारसिंहाय ज्वालामालिने तीक्ष्णदंष्ट्राग्मिनेत्राय सर्वरक्षोघ्नाय सर्वज्वरविनाशाय
सर्वभूतविनाशाय दह दह पच पच रक्ष रक्ष हुं फट् स्वाहा इति
वामबाहौ । उत्तिष्ठ पुरुष हरितपिङ्गळ लोहिताक्ष देहि मे दापय स्वाहा ।
ओं ह्रीं दुं उत्तिष्ठ पुरुषि किं स्वपिषि भयं मे समुपस्थितम् । यदि
शक्यमशक्यं वा ते भगवति शमय शमय स्वाहा ।
 
मृत्योस्तुल्यं त्रिलोकीं ग्रसितुमतिरसान्निस्सृता किं नु जिह्वा
किं वा कृष्णाङ्घ्रिपद्मसृतिभिररुणिता विष्णुपद्याः पदव्यः ।
प्राप्ताः सन्ध्याः स्मरारेः स्वयमुत नुतिभिस्तिस्र इत्यूह्यमानाः
देवैर्देव्यास्त्रिशूलक्षत महिषजुषो रक्तधारा जयन्ति ॥
 
इति बडबानलदुर्गामृत्योस्तुल्यवनदुर्गाभिः सर्वाङ्गमुद्धूळयेत् । ततः
शेषभस्मनि जलं निक्षिप्य त्रिपुण्ड्रधारणं कुर्यात् ।