This page has been fully proofread once and needs a second look.

<page>
<ignore>
वज्रपञ्जरोपनिषत्
 
</ignore>
<ignore>
३११
 
</ignore>
<p>
शाम्भवी विग्रह उच्यते । प्राणादिलिङ्गस्वरूपं गुरोर्लिङ्गम् । गुरुसंभवात्मकं

लिङ्गं प्रगुरोः । ततः प्रथमं प्रणिपतति । प्रणवस्वरूपं लिङ्गं ब्रह्मलिङ्गम् ।

प्रकाशात्मकं लिङ्गं विद्यालिङ्गम् । विद्यालिङ्गं ज्ञानस्वरूपम् । लिङ्गं प्रचरेच्छा-

स्त्रात् । लिङ्गस्वरूपेयं सिद्विर्भविष्यति । सर्वदेहेषु लिङ्गधारणं भवति । इति

वेदपुरुषो मन्यते । महापुरुषोपेतं यो वेद स एव नित्यपूतस्थः । स एव

नित्यपूतस्थ: स्याद्दैवलौकिकः पुरुषः । स एवामुष्मिकपुरुष इति मन्यन्ते ।

जीवात्मा परमात्मा च स एवोच्यते । इष्टप्राणाभावेषु लिङ्गधारणं वदन्ति ।

इष्टे धारणम् । तिस्रः पुरस्त्रिपदा विश्वचर्षणी । पुरनाशे लिङ्गस्वरूपाज्ञासिद्धिर्भव-

त्यवज्ञानेऽसति । संयुक्तं लिङ्गं मोक्ष एव भवत्येव । मोक्षमेव धारणं

विद्यात् । उशंतीव मातरं कुर्यात् । इत्येवं वेदेत्युपनिषत् ।
 
ॐ तत्सत् ॥</p>
<trailer>
इति लिङ्गोपनिषत् समाप्ता
 
ماعي
 
तत्सत् ॥
 
</trailer>
<title>
वज्रपञ्जरोपनिषत्
 
</title>
<p>
सह नाववतु --- इति शान्तिः ।
 
</p>
<p merge
--
 
next="true">वज्रपञ्जरेण भस्मधारणं कुर्यात् । वामकरे भस्म गृहीत्वा सद्यो -

जातमिति पञ्चब्रह्ममन्त्रः । त्रियम्बकं जातवेदसे गायत्र्या मानस्तोकैरभिमन्त्रय
र्य
मूलेन सप्तवारमभिमत्र्य श्रीविद्येयं शिरसि । ऐं वद वद वाग्वादिनि हौ :ह्स्रैः क्लिन्ने

क्लेदिनि क्लेदय महाक्षोभं कुरु । हसकलरी ओं मोक्षं कुरु कुरु । ह्सौः इति

मुखे । ओं ओं नमो भगवति ज्वालामालिनि देवदेवि सर्वज्ञानं हारिके
 
</p>
<ignore>
1
 
</ignore>
</page>