This page has been fully proofread once and needs a second look.

<page>
<ignore>
३१०
 
66
 
</ignore>
<ignore>
शैव-उपनिषदः
 
</ignore>
<p>
ब्रह्मणस्पते "&quot;,
&quot;सोमारुद्रा युवमेतान्यस्मे विश्वा तनूषु भेषजानि धत्तम् ।

अवस्यतं मुंचतं यन्नो अस्ति तनूषु बद्धं कृतमेनो अस्मत् । सोमापूषणा जनना

रयीणां जनना दिवो जनना पृथिव्याः । जातौ विश्वस्य भुवनस्य गोपौ देवा

अकृण्वन्नमृतस्य नाभिम् । "&quot; इति प्राकट्यं कुर्यात् । न कुर्यात्पशुभाषणम् ।

श्रौतानामुपनयनकाले धारणम् । चतुर्थाश्रमः संन्यासः । पञ्चमो लिङ्ग-

धारणम् । अत्याश्रमाणां मध्ये लिङ्गधारी श्रेष्ठो भवति । शिरसि महादेव-

स्तिष्ठतु इति धारयेत् । अन्यायो न्यायः । पृथिव्यापस्तेजो वायुराकाश इति

पञ्चस्वरूपं लिङ्गम् । त्वक्च्छ्रोत्रनेत्र जिह्वाप्राणपञ्चस्वरूपमिति लिङ्गम् ।

रेतोबुद्ध्यापमनस्स्वरूपमिति लिङ्गम् । सङ्कल्प इति लिङ्गम् । ज्योतिरहं

विरजा विपाप्मां भूयासं स्वरूपमिति लिङ्गम् । व्रतं चरेत् । संतिष्ठेन्नियमेन ।

सर्वं शाम्भवीरूपम् । शाम्भवी विद्योच्यते । चरेदेतानि सूत्राणि । पञ्चमुखं

पञ्चस्वरूपं पञ्चाक्षरं पञ्चसूत्रं ज्ञानम् । सिद्धिर्भवत्येव । ज्ञानाद्धारणं लिङ्गदेह-

प्रकार उच्यते । शिरःपाणिपादपायूपस्थं सर्वं लिङ्गस्वरूपम् । ब्राह्मणो वदेत् ।
</p>
<p>
ओङ्कारो बाणः शक्तिरेव पीठं सिन्दूरवर्णेणं सर्वेवं लिङ्गस्वरूपम् ।

कैवल्यं केवलं विद्यात् । व्यवहारपरः स्यात् । प्राण एव प्राणः । पूर्
वं
ब्रह्मा पीठम् । विष्णुर्बाणः । रुद्रः स्वरूपम् । सर्वभूतैरथापरित्याज्यश्च ।

विग्रहमनुग्रहलिङ्गेषु शक्तिकपालेषु सर्ववशङ्करं विद्यात् । जातिविषयान्

त्यजेत् । श्रौताश्रौतेषु धारणम् । वेदोक्तविधिना श्रौतं तद्रहितमश्रौतम् ।

सर्ववर्णेषु धारणं कैलाससिद्धिर्भवति । धारणं देहे कैलासस्वरूपम् ।

धारणं देहे कैवल्यस्वरूपम् । धारणं देहे प्रणवस्वरूपम् । धारणं देहे

वेदस्वरूपम् । धारणं देहे ब्रह्मस्वरूपम् । धारणं देहे शिवस्वरूपम् । शिरसि

बाणं बाहुनाभिपीठप्रकृतिरूपकं देहे धारणं यस्य न विद्यते तद्देहं न

पश्येत् । शिरःकपालं केशान् न कुर्यात् । शिरः पीठं लिङ्गात्मकं सर्वम् ।
 
1
 
</p>
</page>