This page has been fully proofread once and needs a second look.

<page>
<ignore>लिङ्गोपनिषत्</ignore>
<ignore>I</ignore>
<ignore>३०९</ignore>
<p>गुरुरिति । गुरूणां सर्वज्ञानिनां गुरुणा दत्तमेतदन्नं परब्रह्म । ब्रह्म स्वानुभूतिः ।
गुरुः शिवो देवः । गुरुः शिव एव लिङ्गम् । उभयोर्मिश्रप्रकाशत्वात् ।
प्राणवत्त्वात् महेश्वरत्वाच्च शिवस्तदैव गुरुः । यत्र गुरुस्तत्र शिवः । शिवगुरु-
स्वरूपो महेश्वरः । भ्रमरकीटकार्येण दीक्षिताः शिवयोगिनः शिवपूजापथे
गुरुपूजाविधौ च महेश्वरपूजनान्मुक्ताः । लिङ्गाभिषेकं निर्माल्यं गुरोरभिषेक-
तीर्थं महेश्वरपादोदकं जन्ममालिन्यं क्षालयन्ति । तेषां प्रीतिः शिवप्रीतिः ।
तेषां तृप्तिः शिवतृप्तिः । तैश्च पावनो वासः । तेषां निरसनं शिवनिरसनम् ।
आनन्दपरायणः । तस्माच्छिवं व्रजन्तु । गुरुं व्रजन्तु । इत्येव पावनम् ॥</p>
<trailer text="RUDRA_END">इति रुद्रोपनिषत् समाप्ता</trailer>
<title text="LINGA_START">लिङ्गोपनिषत्</title>
<ignore>66</ignore>
<p merge-next="true">ॐ धर्मजिज्ञासा । ज्ञानं बुद्धिश्च । ज्ञानान्मोक्षकारणम् । मोक्षा-
न्मुक्तिस्वरूपम् । तथा ब्रह्मज्ञानाद्बुद्धिश्च । लिङ्गैक्यं देहो लिङ्गभेदे न ।
अज्ञानात् ज्ञानं बुद्धिश्च । चतुर्वर्णानां धारणां कुर्यात् । पशुपक्षि-
मृगकीटकलिङ्गधारणमुच्यते । पञ्चबन्धस्वरूपेण पञ्चबन्धा ज्ञानस्वरूपाः ।
पिण्डाज्जननम् । तज्जननकाले धारणमुच्यते । &quot;सर्वलिङ्गं स्थापयति पाणि-
मन्त्रं पवित्रम्&quot;, &quot;अयं मे हस्तो भगवान्&quot; इति धारयेत् । &quot;या ते रुद्र
शिवा तनूरघोराऽपापकाशिनी&quot;, &quot;रुद्रपते जनिमा चारु चित्रम्&quot;, &quot;वयं
सोम व्रते तव । मनस्तनुषु बिभ्रतः । प्रजावन्तो अशीमहि ।&quot;, &quot;त्रियम्बकं
यजामहे&quot; इति धारयेत् । ब्राह्मणानां धारणां कुर्यात् । &quot;पवित्रं ते विततं</p>
<ignore>&quot;</ignore>
</page>