This page has not been fully proofread.

लिङ्गोपनिषत्
 
I
 
३०९
 
गुरुरिति । गुरूणां सर्वज्ञानिनां गुरुणा दत्तमेतदन्नं परब्रह्म । ब्रह्म स्वानुभूतिः ।
गुरुः शिवो देवः । गुरुः शिव एव लिङ्गम् । उभयोर्मिंश्रप्रकाशत्वात् ।
प्राणवत्त्वात् महेश्वरत्वाच्च शिवस्तदैव गुरुः । यत्र गुरुस्तत्र शिवः । शिवगुरु-
स्वरूपो महेश्वरः । भ्रमरकीटकार्येण दीक्षिताः शिवयोगिनः शिवपूजापथे
गुरुपूजाविधौ च महेश्वरपूजनान्मुक्ताः । लिङ्गाभिषेकं निर्माल्यं गुरोरभिषेक-
तीर्थं महेश्वरपादोदकं जन्ममालिन्यं क्षालयन्ति । तेषां प्रीतिः शिवप्रीतिः ।
तेषां तृप्तिः शिवतृप्तिः । तैश्च पावनो वासः । तेषां निरसनं शिवनिरसनम् ।
आनन्दपरायणः । तस्माच्छिवं व्रजन्तु । गुरुं व्रजन्तु । इत्येव पावनम् ॥
 
इति दोपनिषत समाप्ता
 
लिङ्गोपनिषत्
 
66
 
ॐ धर्मजिज्ञासा । ज्ञानं बुद्धिश्च । ज्ञानान्मोक्षकारणम् । मोक्षा-
न्मुक्तिस्वरूपम् । तथा ब्रह्मज्ञानादबुद्धिश्च । लिङ्गैक्यं देहो लिङ्गभेदे न ।
अज्ञानात् ज्ञानं बुद्धिश्च । चतुर्वर्णानां धारणां कुर्यात् । पशुपक्षि-
मृगकीटक लिङ्गधारणमुच्यते । पञ्चबन्धस्वरूपेण पञ्चबन्धा ज्ञानस्वरूपाः ।
पिण्डाज्जननम् । तज्जननकाले धारणमुच्यते । सर्वलिङ्गं स्थापयति पाणि-
मन्त्रं पवित्रम् ", " अयं मे हस्तो भगवान् " इति धारयेत् । " या ते रुद्र
शिवा तनूरघोराऽपापकाशिनी ", " रुद्रपते जनिमा चारु चित्रम् ", " वयं
सोम व्रते तव । मनस्तनुषु बिभ्रतः । प्रजावन्तो अशीमहि । ", " त्रियम्बकं
यजामहे " इति धारयेत् । ब्राह्मणानां धारणां कुर्यात् । " पवित्रं ते विततं
 
"