This page has been fully proofread once and needs a second look.

<page>
<ignore>
मृत्युलाङ्गूलोपनिषत्
 
</ignore>
<title>
मृत्युलाङ्गूलोपनिषत्
 
</title>
<ignore>
३०७
 
</ignore>
<p>
अथ मृत्युलाङ्गूलं व्याख्यास्यामः । अस्य मृत्युलाङ्गूलमन्त्रस्य

वसिष्ठ ऋषिः । अनुष्टुप् छन्दः । कालाग्निरुद्रो यमश्च देवता । मृत्यूपस्थाने

विनियोगः । अथातो योगजिह्नःhvaH साधुमतियोजितं स मे वाह कालं पुरुष -

मूर्ध्वलिङ्गं विरूपाक्षं विश्वरूपाय नमो नमः । पशुपतये नमः । य इदं

शृणुयान्नित्यं मृत्युलाङ्गूलं त्रिसन्ध्यं कीर्तयति वा स ब्रह्महत्यां व्यपोहति ।

सुवर्णस्तेय्यस्तेयी भवति । गुरुदाराभिगाम्यगामी भवति । सर्वेभ्यः पात-

केभ्य उपपातकेभ्यश्च सद्यो विमुक्तो भवति । सकृज्जप्तेनानेन गायत्र्याः

षष्टिसहस्राणि फलितानि भवन्ति । अष्टौ ब्राह्मणान् ग्राहयित्वा ब्रह्मलोक-

मवाप्नोति । यः कश्चिन्न ददाति स श्वित्री कुष्ठी कुनखी वा भवेत् ।

यः कश्चिद्दीयमानं न गृह्णाति सोऽन्धो बधिरो मूको वा भवति ।

मृत्युमुपस्थितः षण्मासादर्वाक् । बन्धोऽयं नश्यति इत्यनेन मृत्युलाङ्गू-

लाख्यस्य च महामन्त्रस्य शतकृत्वो जप्तेन भगवान् धर्मराट् मम प्रीयताम् ।
</p>
<verse>
ऋतं नष्टं यदा काले षण्मासेन मरिष्यति ।

ऋतं सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम् ॥
</verse>
<verse>
ऊर्ध्वलिङ्गं विरूपाक्षं विश्वरूपं नमाम्यहम् ।

सत्यं तु पञ्चमे मासे परं ब्रह्म चतुर्थके ॥
</verse>
<verse>
पुरुषं च तृतीये वा द्वितीये कृष्णपिङ्गलम् ॥
</verse>
<verse>
ऊर्ध्वलिङ्ग तु मासेन विरूपाक्षं तदर्ध ।

विश्वरूपं तृतीयेऽह्नि सद्यश्चैव नमो नमः ॥
 
</verse>
<trailer>
इति मृत्युलाङ्गूलोपनिषत् समाप्ता
 

 
</trailer>
</page>